________________
१०८
10
४७.
कुमारपालचरित्रसङ्ग्रहः अरौत्सीद् दुर्गमागत्य ततश्चित्राङ्गदोऽपि हि ।। नियन्त्रितपुरद्वारो लसत्युपरि निर्भयः ॥१७१।। -युग्मम् ।। चराः कौरिकवेषेण वर्षेः कतिपयैः पुरम् । प्रविश्य शुश्रुवुर्वार्ता गृहे शुल्काधिकारिणः ॥१७२।। गवाक्षस्था मन्त्रिपुत्री लालयन्ती निजं सुतम् । भाषते तात ! किं नैते मुच्यन्ते वणिजारकाः ? ॥१७३।। हसित्वा तत्पिताहैते न वत्से ! वणिजारकाः । शम्भलीशचमूरेषाऽवात्सीद् दुर्गजिघृक्षया ॥१७४।। वत्से ! जन्म यदा तेऽभूत् तदेदं सैन्यमागतम् । त्वमूढा च पुत्रवती जाताप्येतत् तथैव च ॥१७५।। तत् श्रुत्वा शम्भलीशोऽपि ससैन्यो दुर्गमे पुरे । प्राप्तः प्रोक्तो गवाक्षस्थबकरीवेश्यया यतः ।।१७६।। गण्डूपदः किमधिरोहति मेरुशृङ्ग, किं वा रखेरजगरो निरुणद्धि मार्गम् । शक्येषु वस्तुषु बुधाः श्रममारभन्ते; दुर्गग्रहग्रहिलतां त्यज शम्भलीश ! ॥१॥ अथापसृत्य राज्ञापि प्रेषिता गूढपूरुषाः । समर्प्य प्राभृतं तस्याः प्रोचुः स्वामिनि ! नः प्रभुः ॥१७७।। जित्वा चित्राङ्गदं दुर्गजिघृक्षुस्त्वत्प्रसादतः । तत् प्रसीदादिशोपायं साऽपि हृष्टा जगाद तान् ॥१७८।। सर्वप्रतोलीरुद्घाट्य पूरितार्थिमनोरथः । भुङ्क्ते चित्राङ्गदो नित्यं प्रवेष्टव्यं तदा त्वया ॥१७९।। विवृणोमि गवाक्षस्था यदा केशानहं तदा । ज्ञेया भोजनवेला सा तं ज्ञात्वा शम्भलीशकः ॥१८०॥ बकरीगणिकाभेदाद् द्वितीये जगृहेऽह्नि तम् । दुर्गं ततश्चित्राङ्गदो गृहीत्वा स्वर्णपूरुषम् ॥१८१॥ -युग्मम् ।
15
20
25
1. B ०बष्करी० । 2. B सर्वाः प्र० ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org