________________
कुमारपालप्रबोधप्रबन्धः ।
Jain Education International
राज्ञा सह ततः स्नात्वा जलमानीय योगिना । विलेपनैर्विलिप्याङ्गं होमार्थं ज्वालितोऽनलः ॥१५७॥ उक्तश्च राजा त्वं देव ! प्रतिपन्नैकवत्सलः । तदस्य वह्निकुण्डस्य देहि प्रदक्षिणात्रयम् ॥ १५८॥ राजा सशङ्कस्तं स्माह त्वं योगिन्नग्रतो भव । ततो योगी तथा कुर्वन्न च्छलं प्राप भूपतेः ॥ १५९॥ अथ व्यावृत्त्य सहसा नृपं यावज्जुहोति सः । तावन्नरेन्द्र- मन्त्रिभ्यां स एवाग्नौ हुतो हठात् ॥१६०॥ व्याघ्रोऽप्यनुप्रविष्टस्तं सञ्जातः स्वर्णपूरुषः । सम्पूज्य तं गृहीत्वा च राजाऽगान्मध्यमां पुरीम् ॥१६१॥ यच्छन् यथेच्छं द्रविणं ख्यातिं स प्राप सर्वतः । ततः स्वऋद्धिरक्षार्थमादिदेशेति मन्त्रिणम् ॥१६२॥ यथा चित्रगिरेः पार्श्वे कूटशैलोऽस्ति दुर्गमः । तस्योपरि महादुर्गं कारयाभङ्गुरोद्यमः ॥१६३॥ मन्त्रिणापि तथारब्धे यावच्चेचीयते दिवा । तावन्निपतति रात्रौ षण्मासा इति जझिरे || १६४ || तथाप्यभङ्गुरोत्साहं नृपं कूटाचलाधिपः । उवाच मा कृथा दुर्गमत्र कर्तुं न कोऽप्यलम् ॥१६५॥ प्राणात्ययेऽपि कर्त्ताऽस्मि नृपेणोक्ते सुरोऽब्रवीत् । यद्यैवं निश्चयस्तर्हि कुरु चित्रनगोपरि || १६६ ॥ दुर्गस्य नाम मध्ये तु देयं मन्नाम भूपते ! | तत्र चित्राङ्गदश्चक्रे दुर्गं चित्रनगोपरि || १६७॥ नगरं चित्रकूटाख्यं देवेन तदधिष्ठितम् । कोटीध्वजानां यन्मध्ये सहस्राणि चतुर्दश ॥ १६८ ॥ लक्षेश्वराणां योग्या च कारिता तलहट्टिका । वापीकूपसरोमुख्यं शेषं देवेन कारितम् ॥१६९॥ इतश्च स्वर्णपुरुषं सिद्धं चित्राङ्गदस्य तम् । ग्रहीतुं कन्यकुब्जेशः शम्भलीशो नृपो बली ॥१७०॥
For Private & Personal Use Only
१०७
5
10
15
20
25
www.jainelibrary.org