SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १०६ 10 कुमारपालचरित्रसङ्ग्रहः ४४. नेत्रान्त-पाद-कर-ताल्वधरौष्ठ-जिह्वा, रक्तान्यमूनि ननु सप्त हितप्रदानि। सूक्ष्माणि पञ्च दशनाङ्गलिपर्वकेशाः; साकं त्वचा कररुहाश्च न दुःखितानाम् ॥३॥ ४५. हनु-लोचन-बाहु-नासिका-स्तनयोरन्तरमत्र पञ्चकम् । इति दीर्घमिदं तु पञ्चकं न भवत्येव नृणामभूभुजाम् ॥४॥ ४६. त्रिषु विपुलो गम्भीरस्त्रिष्वेव षडुन्नतश्चतुर्हस्वः । सप्तसु रक्तो राजा पञ्चसु सूक्ष्मश्च दीर्घश्च ॥५॥ श्रुत्वेति मुदितो राजा प्राह योगीन्द्रमुत्तमम् । किमु कार्यं मयाख्याहि यथा तथा करोम्यहम् ॥१४८।। यतः कृष्णचतुर्दश्यां रात्रौ चित्रनगोपरि । मम सिद्ध्यति मन्त्रश्चेत् त्वं तत्रोत्तरसाधकः ॥१४९।। ओमित्युक्त्वा नरेन्द्रेण स योगीन्द्रो व्यसृज्यत । राजपत्न्यान्तरितया तत् श्रुत्वाऽवाचि मन्त्रिणे ॥१५०॥ उवाच मन्त्री ज्ञाप्योऽहं यदा तत्र व्रजेत् नृपः । ततो यथोक्तवेलायां खड्गव्यग्रकरो नृपः ॥१५१।। एकाकी निर्ययौ छन्नो राजा ज्ञात्वा मन्त्र्यपि । दक्षो नरेन्द्ररक्षार्थं नृपेणालक्षितो ययौ ॥१५२॥ नृपोऽपि चित्रशैलाग्रमारूढो वीक्ष्य योगिनम् । व्याघ्रं च होमसामग्री ततोऽजल्पत् करोमि किम् ॥१५३॥ रक्षार्थं होमसामय्या मुक्त्वा तत्र नरेश्वरम् । योगी जलार्थं सव्याघ्रः क्षीरकूपं गतः स्वयम् ॥१५४॥ इतश्च प्रकटीभूय नत्वोचे मन्त्रिणा नृपः । देवोपकरणैरेभिः साध्यते स्वर्णपूरुषः ॥१५५।। तत्तं सिसाधिषुर्योगी होमित्वा त्वत्तनुं ध्रुवम् । तद् यतस्व स्वरक्षायै इत्युक्त्वाऽन्तरितोऽथ सः ॥१५६।। 15 20 25 1. B राज्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy