SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । ४०. सर्वस्मिन्नणिमादिपङ्कजवने रम्येऽपि हित्वा रतिं, शुद्धां मुक्तिमालिकां प्रति दृशं यो दत्तवानादरात् । चेतोवृत्तिनिरोधलब्धपरमब्रह्मप्रमोदाम्बुभृत् । सम्यक्साम्यसरोजसंस्थितिजुषे हंसाय तस्मै नमः ॥१॥ ततः कुमारोऽपृच्छत्- 'योगिन् ! किं स्नानं किं दानं किं ध्यानं चेति ?' 5 योग्यूचे - ४१. एतदाकर्ण्य प्रमुदितः । स्नानं मनोमलत्यागो दानं चाभयदक्षिणा । ज्ञानं तत्त्वार्थसम्बोधो ध्यानं निर्विषयं मनः ॥ १ ॥ ६६२४. मध्ये दशपुरे स्थित्वा चित्रकूटनगं गतः । शान्तिचैत्ये श्वेतभिक्षो रामचन्द्रस्य सन्निधौ ॥१४३॥ जाते चित्रे चित्रकूटदुर्गोत्पत्तिमपृच्छत । रामोऽप्यूचेऽतः क्रोशत्रयेऽभून्मध्यमापुरी ||१४४|| तत्र चित्राङ्गदो राजा सोऽन्यदाभिनवैः फलैः । योगिना व्याघ्रयुक्तेन षण्मासावधि सेवितः ॥ १४५॥ पृष्टो हेतुरथो राज्ञा योग्यूचे मन्त्रसिद्धये । द्वात्रिंशल्लक्षणवतः सान्निध्यात् ते भवेच्च सः ॥ १४६॥ ४२. नाभिः स्वरः सत्त्वमिति प्रतीतं गम्भीरमेतन्त्रितयं नराणाम् । उरो ललाटं वदनं च पुंसां विस्तीर्णमेतन्त्रितयं प्रदिष्टम् ॥१॥ ४३. वक्षोऽथ कुक्षिर्नखनासिकास्यं कृकाटिका चेति षडुन्नतानि । ह्रस्वानि चत्वार्यथ लिङ्गपृष्ठं ग्रीवा च जङ्गेऽभिमतप्रदानि ॥२॥ राज्ञा पृष्टः पुनः कानि लक्षणानि महीतले । कौतुकं यदि ते तर्हि श्रूयतां तानि भूधर ! ॥ १४७॥ Jain Education International i. B इतः । 2. B हेतुमथो । 3. B व्लक्षणयुजः । 4 B जङ्घाऽ । १०५ For Private & Personal Use Only 10 15 20 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy