SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १०४ 10 कुमारपालचरित्रसङ्ग्रहः प्रणम्य लिङ्गं तन्मध्ये व्याप्तं सप्तफणाकुरैः । वीक्ष्य प्रशस्तिमध्ये तु गाथामेतामवाचयत् ॥१३३।। पुन्ने वाससहस्से सयंमि वरिसाण नवनवइ अहिए । होही कुमरनरिंदो तुह विक्कमराय ! सारिच्छो ॥१॥ आत्मनो नामसाम्यं च वर्षाणां वीक्ष्य पूर्णताम् । गाथार्थं कुमरोऽपृच्छत् जैनदर्शनसन्निधौ ॥१३४।। सोऽप्याह पूर्वमत्रासीत् सिद्धसेनो दिवाकरः । विक्रमादित्यभूपस्य तेनाभ्यर्थनया किल ॥१३५।। द्वात्रिंशद्वात्रिंशिकाभिर्वीतरागः स्तुतस्ततः । कुडङ्गेश्वरलिङ्गं च स्फुटितं तस्य मध्यतः ॥१३६।। आविरभूद् धरणेन्द्रः श्रीपार्श्वप्रतिमाकरः । तं दृष्ट्वा विक्रमादित्यः सञ्जातः परमार्हतः ॥१३७।। गुरूपदेशतस्तेन कारितं भूमिमण्डलम् । अनृणं निजदानेन ततः संवत्सरोऽस्य महान् ।।१३८।। तेनैकदां सिद्धसेनः पृष्टः किं कोऽपि भारते ।। अतः परं जैनभक्तः सार्वभौमो भविष्यति ॥१३९।। श्रुतज्ञानेन विज्ञाय गाथेयं गुरुणोदिता ।। राज्ञा च लेखिताऽत्रैव तत् श्रुत्वा कुमरोऽवदत् ॥१४०।। आर्हतानामहो शक्तिः, अहो ज्ञानमहो व्रतम् । अहो परोपकारित्वं, किममीषां हि नाद्भुतम् ॥१४१।। तत: सज्जन-भोपल्लदेवी-बोसिरिभिः समम् । धृत्वा निर्भरवेषं स उज्जयिन्या विनिर्ययौ ॥१४२।। 15 20 दशपुरे पद्मासनासीनं प्रशमामृतधरं योगिनं विलोक्य ननाम । स ध्यानं मुक्त्वा 25 कुमारमूचे - 1. B कुण्डगे० । 2. B स्फटितं । 3. B निर्जर० । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy