SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १०३ कुमारपालप्रबोधप्रबन्धः । तथाकृते तथाजाते चैत्यं निर्माय भूभुजा । देवस्थाने स्थापितं च शीर्षमेतत् प्रसिद्धये ॥१२१।। तत् श्रुत्वा विविधाश्चर्यदर्शनाज्जातनिश्चयः । किञ्चित् कालं कुमारोऽपि स्थित्वा कान्त्या विनिर्ययौ ॥१२२।। ६६२२. मल्लिनाटजनपदे गतः कोलम्बपत्तने । महालक्ष्या च कोलम्बस्वामी स्वप्ने न्यगद्यत ॥१२३।। भविष्यो गूर्जरात्रायाः स्वामी यस्तव पत्तने । समेष्यति जटाधारी विधेयं तस्य पूजनम् ॥१२४॥ चतसृषु दिक्षु मुक्तैः पुरुषैः पुरसीमनि । यथोक्तलक्षणैर्वीक्ष्य कुमारो भक्तिपूर्वकम् ॥१२५।। आहूय नृपतेः पार्श्वे समानिन्ये ततो नृपः । अभ्युत्थाय स्वकीयार्द्धासने तं स न्यवेशयत् ॥१२६।। निगद्य च तमादेशं राज्ञा राज्ये निमन्त्रितः । निषिद्धय कुमरस्तस्य पार्श्वे तस्थौ यथासुखम् ॥१२७|| सोचे(?)तथापि तेऽभीष्टं कुमार ! किं करोम्यहम् । कुमारः प्राह येनात्र ज्ञायते मे समागमः ॥१२८।। दशगव्यूतिविस्तारे कोलम्बपत्तनान्तरे । भूमीमप्राप्य राज्ञाऽथ सङ्कोच्य निजमन्दिरम् ।।१२९।। कुमारपालेश्वराख्यः प्रासादस्तत्र कारितः । कुमारपालनामाकं नाणकं च प्रवर्तितम् ॥१३०॥ तद् दृष्ट्वा कुमारश्चिन्तितवान्-अहोऽस्य परमा प्रीतिः । ३८. यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया । चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥१॥ तत: कुमारो निर्याय प्रतिष्ठानपुरं गतः । द्विपञ्चाशद्वीरकूपाद्याश्चर्याणि विलोकयत् ।।१३१।। ६६२३. प्राप्तः क्रमेणोज्जयिन्यां निजस्वजनसन्निधौ । । भ्रमंस्तत्रान्यदायातः कुडङ्गेश्वरमन्दिरे ॥१३२॥ 1. B कुण्डगे० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy