________________
5
10
15
20
25
१०२
पद्मकोशाद् विनिर्गत्य शीर्षमेकं सकुण्डलम् । एकेन ब्रुडतीत्युक्त्वा निमज्जद् ददृशे स्वयम् ॥११०॥ तदर्धं पण्डितैः पृष्टैः प्राप्य मासचतुष्टयम् । तं ज्ञातुं प्रेषिता विप्राश्चत्वारो वृद्धसन्निधौ ॥ १११॥ ३६. यदेकः स्थविरो वेत्ति न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति वृद्धवाक्यात् स पूज्यते ॥१॥ तैश्च गत्वा मरौ देशे स्थविरः कोऽप्यपृच्छत । स्वपिता दर्शितस्तेन तेनापि स्वपितामहः ॥११२॥ सविंशतिशतवर्षदेशीयस्यास्य सन्निधौ । विप्रैरपृच्छि शीर्षस्य ब्रुडतीत्युक्तिकारणम् ॥ ११३॥ सोऽप्यूचे भोजयित्वा तान् शुनीडिम्भचतुष्टयम् । गृह्णीतेदं महामूल्यं शुद्ध्यत्यध्वव्ययो यतः ॥११४॥ लोभाद् विप्रा अपि कटौ कृत्वा तांश्चलनाक्षमान् । व्याघुटन्तं वृद्धमूचुः स्वसन्देहस्तथैव नः ॥११५॥ संशयश्छिन्न एवायमित्युक्ते तेन तेऽभ्यधुः । कथं स ऊचे शास्त्रज्ञा अप्येतदपि वेत्थ न ॥ ११६ ॥
३७.
त्वमभ्यधाः ।
कुमारपालचरित्रसङ्ग्रहः
1. B oव्यये । 2. B ससन्देहा० । ★ न ॥ ११६ ॥ यदुक्तम् श्वानं । 3 B डिम्भानीति
Jain Education International
श्वानगर्दभचाण्डालमद्यभाण्डरजस्वलाः । स्पृष्ट्वा देवकुलं चैव सचैलं स्नानमाचरेत् ॥१॥ शास्त्रे निषिद्धः संस्पर्शो विप्राणां युज्यते कथम् । तेऽप्यूचुर्बहुमूल्यानि श्वडिम्भानि त्वमप्यधाः ||११७॥ ततोऽस्माभिर्गृहीतानि लोभाद् विक्रियते न किम् । ऊचे वृद्धस्तदेवेदं विश्वं ब्रुडति लोभतः ॥११८॥ इति ते छिन्नसन्देहाः कुमारेहागताः पुनः । पण्डितैः पुस्तकेष्वेवं लिखितोऽर्थः सविस्तरः ॥ ११९॥ राज्ञेऽदर्शि नृपोऽप्याह सत्यमेतत् शिरो यदि । श्रुत्वेममर्थं न पुनः सरसो निःसरिष्यति ॥ १२०॥
For Private & Personal Use Only
www.jainelibrary.org