SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । १०१ तदा च भूत्वा प्रत्यक्षं महालक्ष्मीरवोचत । गुर्जरात्राधिपत्वं ते दत्तं वस्तु पञ्चभिः ॥१००।। सिद्धमन्त्रः कुमारोऽथ नत्वा सर्वार्थयोगिनम् । कल्याणकटके देशे क्रमात् कान्तीपुरीं ययौ ॥१०१।। ३५. यतः-पुष्पेषु जाती नगरेषु कान्ती नारीषु रम्भा पुरुषेषु विष्णुः। सतीषु सीता द्रुषु कल्पवृक्षो जिनस्तु देवेषु नगेषु मेः ॥ 5 10 ६६२०. कुमारः कौतुकात् तस्यां भ्रमन् परिसरेऽन्यदा ।। कबन्धमेकमद्राक्षीद् वैरिणाऽपास्तमस्तकम् ॥१०२।। तत्पार्वे मिलित: स्त्रीणां शुश्रावान्योऽन्यजल्पितम् । अहो कचकलापोऽस्य अहो श्रवणलम्बता ।।१०३।। अहो धनत्वं कूर्चस्य ताम्बूले व्यसनं तथा । अहो विरलदन्तत्वं श्रुत्वेत्येकां ततो जगौ ॥१०४।। कथमेतत्, ततस्ताश्चावोचन् किं चित्रमत्र यत् । दीर्घ वेणीसलं पृष्ठे स्कन्धे कुण्डलयोः किणे ॥१०५।। आनाभि हृदि गौरत्वात् दृश्यते श्मश्रुणः सलम् । ताम्बूलव्यसनाच्चैषोऽङ्गष्ठचूर्णेन चचितः ॥१०६॥ नित्यं विरलदन्तानां क्षित्या रक्ता कनिष्ठिका । तत् श्रुत्वाऽचिन्तयदसौ बहुरत्ना वसुन्धरा ॥१०७|| 15 20 ६६२१. कृत्वा स्नानं कुमारोऽथ सरस्यमृतसागरे । तीरदेवकुले गत्वाऽर्च्यमानं ददृशे शिरः ॥१०८॥ तस्येतिवृत्तं पृष्टश्च कश्चन स्थविरोऽवदत् । पुरे हि प्रवरे राज्ञा कारिते सरसि स्वयम् ॥१०९।। 1. B ०धिपत्यं । * 'रम्भा' यावत् 'मेरुः' ॥१॥' पर्यन्तपाठस्थाने रम्भा त्रिदशेषु शक्रः । नदीषु गङ्गा पुरुषेषु रामः, काव्येषु माघ: कविकालिदासः ॥१॥ B प्रतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy