________________
5
10
15
20
25
१००
निर्द्रव्यं राजपुत्रं तं विलोक्य वणिगूचिवान् । खड्गेनालं मङ्गलीके(माङ्गलिके) भवन्तु चणकास्तव ॥ ८६ ॥ कन्नाली - सिद्धपुरके जटीभूत्वाऽथ सोऽगमत् । सिद्धेश्वरस्य पूजार्थं स्थापितस्तन्निवासिभिः ॥८७॥ तत्रैकदा शकुनिनं भारवं पृष्टवानसौ ।
वाञ्छिताप्तिः कदा मे स्यात् सोऽप्यूचे प्रातपतेः ॥८८॥ प्रातर्मिलित्वा शकुनान्वेषणाय गतावुभौ । मुनिसुव्रतचैत्योर्ध्वं दृष्ट्वा दुर्गां स्थितौ ततः ॥८९॥ शुभचेष्टाऽकरोद् दुर्गाऽऽमलसारे स्वरद्वयम् । स्वरत्रयं च कलशे दण्डे स्वरचतुष्टयम् ॥९०॥ हृष्टः शाकुनिकोऽवोचत् सिद्धिस्ते वाञ्छिताधिका । भाविन्येव विशेषात्तु जिनभक्तिप्रभावतः ॥ ९१ ॥ वस्त्रैः सम्पूज्य कुमरस्तं मुक्त्वा तापसव्रतम् । गत्वाऽवन्त्यां स्वजनानां मिलित्वा सिद्धराद्भयात् ॥९२॥ क्वचिद्योगी क्वचिद्बौद्धः क्वचित्तापसवेषभृत् । क्वचित्कार्पटिकाकारो भृशं बभ्राम भूतले ॥९३॥ ९६१९. गत्वा कोलापुरेऽद्राक्षीद् दानभोगादिसद्गुणम् । सर्वार्थसिद्धियोगीन्द्रं सेवित्वा चाप्यतोषयत् ॥९४॥ उवाच योगी मन्त्रौ स्त एकः साम्राज्यदायकः । स्वेच्छया धनदाताऽन्य आद्यः सोपद्रवः पुनः ॥ ९५|| सत्त्वसारः कुमारोऽथ मन्त्रं जग्राह राज्यदम् । उक्तेन तेन विधिना पूर्वसेवां व्यधत्त सः ॥ ९६॥ ततः कृष्णचतुर्दश्यां गत्वा पितृवने निशि । शबस्य वक्षसि न्यस्य वह्निकुण्डं स्वयं पुनः ||९७|| उपविश्य तस्य कट्यां यावद् होमं ददाति सः । करालमूर्त्तिः प्रत्यक्षस्तावत् क्षेत्राधिपोऽवदत् ॥९८॥ मामनभ्यर्च्य रे धृष्ट ! किमारब्धं मुमूर्षुणा । इति श्रुत्वापि निःक्षोभः सोऽपि जापं समापयत् ॥९९॥
Jain Education International
कुमारपालचरित्रसङ्ग्रहः
For Private & Personal Use Only
www.jainelibrary.org