________________
कुमारपालप्रबोधप्रबन्धः ।
इतश्चागादुदयनो गुरुन्नन्तुं सुतैः सह । आख्यायाम-बप्पभट्योदृष्टान्तं हेमसूरिभिः ॥८१।। प्रोक्तं चेति कमारोऽयं भविता परमार्हतः ।। सार्वभौमस्ततो मन्त्रीन् ! सन्मान्योऽयं महादरात् ॥८२।।
88१८. अस्योदयनस्य पुण्योदयः कथ्यते । यथा-पूर्वं मरुमण्डलवास्तव्यः 5 श्रीमालवंश्य ऊदाभिधानो वणिक् प्रावृषि काले प्राज्याज्यक्रयाय निशीथे व्रजन्, कर्मकरैरेकस्मात् केदारादपरस्मिन् पूर्यमाणेऽम्भोभिः 'के यूयमि'ति तान् पप्रच्छ । तैर्वयममुकस्य कामुका इत्यभिहिते, 'ममापि क्वापि सन्ती'ति पृच्छन्, तैः कर्णावत्यां तवापि सन्ति' इति अभिहिते स सकुटुम्बस्तत्र गत्वा वायडीयजिनायतने विधिवद् देवान्नमस्कुर्वन्, कया छिम्पिकया श्राविकया साधर्मिकत्वाद् ववन्दे । पृष्टश्चेति-'भवान् 10 कस्यातिथिः ?' तेनोक्तम्-'वैदेशिकोऽ[पि]मिति भवत्या एवातिथिः' - इति तद्वाक्ये श्रुते तं सह नीत्वा कस्यापि वणिजो गृहे कारितान्नपाकेन भोजयित्वा, निजतलके निर्मा[पि]तकायमाने निवास्य स्थापितः । स तत्र सम्पन्नसम्पत् इष्टकं गृहं चिकीर्षुः खातावसरे निरवधि सेवधिमधिगम्य तामेव स्त्रियमाकार्य समर्पयत् । तया निषिद्धः । तत्प्रभावेन तत:प्रभृति उदयसंयुक्तत्वात् उदयननामा मन्त्रीति पप्रथे । तेन कर्णाव- 15 त्यामतीत-वर्तमान-भविष्यच्चतुर्विंशतिजिनसमलङ्कृतः श्रीउदयनविहारः कारितः । तस्यापरमातृका बाहड-सोला-आम्बड-चाहडदेवनामानश्चत्वारः सुता अभूवन् ।
कुमारोऽप्युदयनस्य गृहेऽतिष्ठत् तदाऽन्यदा । केनाप्युक्तः सिद्धराजः प्रैषीत् तत्प्रति घातकान् ॥८३।। तत् श्रुत्वा कुमारो भीतः प्राणवाणकृते कृती । एकाकी निशि निर्गत्य जगाम वटपद्रके ॥८४।। विंशोपकैकचणकान् कडूवणिज आपणे । क्षुधातॊ भक्षयित्वाऽसौ खड्गमड्डाणके ददौ ॥८५।।
1. B प्राज्यकेदारक्रियायै । 2. B पृष्टवान् । 3. B 'कर्णावत्या' इत्यस्योपरि 'आशापल्ल्यां इति B प्रतौ टिप्पणी । 4. B नमस्कुर्वन्नेकया । 5. B 'साधर्मिक ! त्वां वन्दे' इति भणित्वा पृष्ट इष्टकचित्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org