________________
कुमारपालचरित्रसङ्ग्रहः अहोऽस्यादूनता येन सुप्ते मय्येककोऽत्यसौ । जीर्णे करम्भे सोऽप्याहोत्तिष्ठ भुक्ष्व नृपात्मज ! ॥६९॥ ऊचे कुमारः किं पूर्वमेकाकी भुक्तवान् भवान् । स ऊचे मम भिक्षार्थं गतस्योक्तं स्त्रियैकया ॥७०॥ करम्भकुम्भं हे विप्र ! रात्रावुद्घाटितं स्थितम् । गृहाण यदि ते कार्यं न पुनर्मम दूषणम् ॥७१।। वरं भवति मे मृत्यू रक्षणीयो भवान् पुनः । गोपितः स मयादाय स्वयं भुक्त्वा परीक्षितः ॥७२।। राज्ये दास्ये तव ग्राममेनमुक्त्वेति राजसूः । प्राप्तो डाङ्गरिकाग्रामे साध्वीलक्ष्मीश्रियो मठे ॥७३॥ तथा च क्षुधितो ज्ञात्वा भोजितश्चारुमोदकैः । तयैवार्पितपाथेयः पाटलापद्रकं गतः ॥७४॥ तत्रेश्वरवणिग्वाट्यां प्रविष्टस्य पटी गता । न लब्ध्वा चाटुभिरपि विषादोऽस्य महानभूत् ॥७५।। प्रावृत्य बोसिरिपटीं स्तम्भतीर्थे गतस्ततः । श्रीहेमसूरीन् पप्रच्छ कदा सेत्स्यति वाञ्छितम् ॥७६।। लोकोत्तराणि चिह्नानि तदङ्गे वीक्ष्य सर्वतः । तेऽप्यूचुर्नृपतिर्भावी सार्वभौमो नरोत्तमः ॥७७।। तो च वाणीं निशम्यासौ हर्षमालासमाकुलः । उवाच राज्यसन्देहो म्रियते तु क्षुधाऽधुना ॥७८।। श्रीविक्रमाद्धि शरदां नवनवत्यधिकेषु कात्तिके मासे । हस्तार्करवौ द्वितीयायां गतेष्वेकादशशतेषु ॥७९॥ भवतस्तदाऽभिषेको न भवति यदि राज्यसम्भवस्तन्मे ।
यावज्जीवं नियमोऽतः परं सन्निमित्तस्य ।।८०।। 25 इति निश्चयं श्रुत्वा कुमारपालः प्राह- यद्यदः सत्यं ततस्त्वमेव राजाऽहं तव
सेवकः'। श्रीसूरिर्बभाषे राजन् ! सुरासुरनरनिकरनायकमुकुटमणिकिरणनीराजितपादारविन्दस्य श्रीसर्वज्ञस्य शासने प्रभावको भवतु भवान्'। इति प्रतिपन्नं राज्ञा ।
1. B पेटला० । 2. B तां तद्वाणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org