________________
कुमारपालप्रबोधप्रबन्धः । _ व्रजन्नेवं कुमारोऽपि नानाश्चर्यावलोकधीः ।
विश्रान्तस्तरुच्छायायां यावदस्ति समाहितः ॥६४।। तावद् बिलान्मूषकं मुखेन रूप्यनाणकमाकर्षन्तं निभृततया विलोक्य यावदेकविंशतिसङ्ख्यानि दृष्ट्वा एकं गृहीत्वा बिलं प्रविष्टः । कुमारपालः पाश्चात्यानि तु सर्वाणि गृहीत्वा यावन्निभृतीभूत्वा तिष्ठति तावन्मूषकस्तान्यनवलोक्य तदा विपेदे । 5 तच्छोकशङ्काव्याकुलितमनसश्चिरं परितप्य चेतसीदं चिन्तयामास३०. अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
आये दुःखं व्यये दुःखं धिगर्थो दुःखभाजनम् ॥१॥ ३१. धनेषु जीवितव्येषु स्त्रीषु चान्नेषु सर्वदा ।। अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च ॥२॥
10 तस्मात् पुरो व्रजन् कयापि इभ्यवध्वा श्वशुरगृहात् पितुर्गुहं व्रजन्त्या, पथि पाथेयाभावाद् दिनत्रयक्षुत्क्षामकुक्षिर्धातृवात्सल्यात् कुमारपालः कर्पूरपरिमलशालिना शालिकरम्बेन सुहितीचक्रे । तदौचित्येन हृष्टोऽचिन्तयत्३२. करचलुयपाणिएण वि अवसरदिन्नेण मुच्छियं जियइ ।
पच्छा मुयाण सुन्दरि ! घडसयदिन्नेण किं तेण ॥१॥ ३३. जं अवसरेण न हयं दाणं विणओ सुभासियं वयणं ।
पच्छागयकालेणं अवसररहिएण किं तेण ॥२॥ तस्मिन् करोटकग्रामे उषित्वा जातलङ्घनौ । अच्छाबिल्यां द्वितीयेऽह्नि प्रयातौ प्रहरद्धये ॥६५।। कुमारो बोसिरिं प्राह अद्य स्याद् भोजनं कथम् ।
सोऽप्याहास्ति जननी मे सा मे दास्यति भोजनम् ॥६६॥ ३४. यतः- प्रतिदिनमयत्नलभ्ये ! भिक्षुकजनजननि ! कल्पलते !।
नृपतिनतिनरकतारणि ! भगवति भिक्षे ! नमस्तुभ्यम् ॥१॥ इत्युक्त्वा बोसिरिभिक्षां कृत्वा यातस्तदन्तिके । करम्भकुम्भी सङ्गोप्य भिक्षासुण्डीमुपानयत् ॥६७।। भुक्त्वोभावपि सुप्त्वा च पूर्वमादाय बोसिरिः । करम्भं यावदश्नाति कुमारोऽचिन्तयत् तदा ॥६८।।
15
20
25
1. B विलोकयति । स तावदेकविंशतिसङ्ख्यानि तानि दृष्ट्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org