SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ९६ Jain Education International कुमारपालचरित्रसङ्ग्रहः नानाविधैर्भक्ष्यभोज्यै राजा सम्भोज्य तानथ । धौतपोतीकृते तेषां भाण्डागारे स्वयं गतः ॥ ५१॥ अत्रान्तरे कुमारोऽपि गृहीत्वा कुण्डिकां करे । उत्क्रान्तिव्याजतो नंष्ट्वा कुम्भकारगृहं गतः ॥५२॥ आपाके रच्यमाने तु मृत्पात्राणां कृपालुना । आलिगेन तदन्तस्तं निधायेति सुरक्षितः ॥५३॥ सिद्धराजोऽप्यदृष्ट्वा तं पृष्ठेऽप्रैषीच्च साधनम् । आगतं साधनं प्रेक्ष्य ययौ सन्मुखमालिगः ॥५४॥ राट्पुरुषैस्ततः पृष्टं पुमान् कश्चिदिहायौ ? | किमन्धा यूयमग्रेऽपि किं न पश्यथ पावकम् ॥५५॥ राजलोके गते तेन नाशितोऽनाशितो निशि । दृष्ट्वा सैन्यं प्रागकस्मात् कुमारो हालिकं गौ ॥५६॥ रक्ष मामिति तेनापि सञ्छन्नः कण्टकाभरैः । तमदृष्ट्वा सैन्यमपि गतं व्याघुट्य पत्तने ॥५७॥ निःसृत्याथ कुमारोऽपि मुण्डाप्य विकटा जटाः । गत्वा दधिस्थलीं रात्रौ मिलितः स्वजनैः समम् ॥५८॥ आकार्य बोसिरिं मित्रं कुलालमालिगं तथा । गन्तुं देशान्तरं ताभ्यां सह यावदमन्त्रयत् ॥५९॥ तावदुज्जागरोद्विग्नौ जनकावूचतुस्तयोः । भवतां मन्त्रणैर्दग्धाः केयं जागरिका मुधा ||६०|| यद्वा कुमारपालस्य राज्यं यदि भविष्यति । तत्कथं बोसिरे ! तुभ्यं लाटदेशं प्रदास्यति ॥ ६१ ॥ किञ्च रे आलिग ! तव चित्रकूटस्य पट्टिकाम् । बबन्ध शकुनग्रन्थि तच्छ्रुत्वा राजनन्दनः ॥६२॥ आलिगं भोपलदेव्या सह प्रैषीदवन्तिकाम् । स्वयं बोसिरियुक्तस्तु चेले देशान्तरं प्रति ॥ ६३ ॥ 1. B नाशितो नाशितो । 'नाशितो' इत्यस्योपरि 'निष्काशित:' इति B आदर्शे टिप्पणी । 2. B प्रकस्मात् । 3. B यौ For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy