________________
10
कुमारपालप्रबोधप्रबन्धः ।
ततोऽसौ पादचारेण कपोतीमुद्वहन् स्वयम् । गत्वा प्रभासे पुत्रार्थं सोमनाथमयाचयत् ॥३८॥ सोमनाथोऽप्यथोवाच मया राज्यधरः पुरा । सृष्टः कुमारपालोऽस्ति तदलं पुत्रयाञ्चया ॥३९|| सविषादस्ततो भूपो व्यावृत्तः पत्तनं प्रति । अस्मिन् जीवति पुत्रोऽपि न मे भावीत्यचिन्तयत् ॥४०॥ मन्त्रिणेऽकथयच्चैतत् सोऽप्यूचे युक्तमेव तत् । यदा पूर्वं देवपादाः विजेतुं मालवान् गताः ॥४१।। घाटे दुद्धिलिकायाश्च संरुद्धे यश( शो)वर्मणा । युष्माभिर्ज्ञापितश्चाहं पारापतप्रयोगतः ॥४२॥ त्रिभुवनपालस्यैतत् तदा राज्यं समर्पितम् । त्वत्समीपेऽहमायातस्तेन राज्यं वशीकृतम् ।।४३।। निर्जित्य जसवाणं त्वय्यायातेऽपि वक्ति सः । राज्यं दास्ये स्वपुत्राय हत्वा सिद्धनरेश्वरम् ॥४४।। इति मन्त्रिवचः श्रुत्वा क्रुद्धः सिद्धाधिपस्ततः । त्रिभुवनपालदेवं घातयामास घातकैः ॥४५।। कुमारपालोऽप्यवन्त्यां प्रेष्य भ्रातृपितृव्यकान् । भार्यां भोपलदेवीं तु दधिस्थल्याममुञ्चत ॥४६।। स्वयं तु त्रिपुरुषाणां मठाधिपतिसन्निधौ । कपटेन जटाधारी भूत्वा श्रीपत्तने स्थितः ॥४७|| सिद्धराजोऽपि तत्रस्थं ज्ञात्वा तं च कथञ्चनः । क्षयाह्ने कर्णदेवस्य द्वात्रिंशत्तापसैः सह ॥४८।। तं निमन्त्र्य मठाधीशं पङ्क्त्या धावन् पदौ स्वयम् । ददर्श राजचिह्नानि कुमारस्य च पादयोः ॥४९।। उपलक्ष्य कुमारं तं राज्ञा पृष्टो मठाधिपः । अवोचच्च त्रयास्त्रिंशत्तापसा वयमास्महे ॥५०॥
15
20
25
1. 'क्षयाह्ने' इत्यस्योपरि 'श्राद्धदिने' B आदर्श टिप्पणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org