SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरित्रसङ्ग्रहः नार्थमायातः । पप्रच्छ कोऽत्र विशेषः । श्रीहेमसूरिभिः प्रोक्तम्- 'देव ! महेश्वरस्य ललाटे चन्द्रः, श्रीजिनस्य पादान्ते नवग्रहा भवन्ति' - इति विशेषः । राजा तन्न मन्यते । ततो वास्तुविद्याविशारदः सूत्रधारो विचारं प्राह - 'सामान्यलोकानां गृहद्वारं पञ्चशाखम्, राज्ञां सप्तशाखम्, रुद्धादिदेवानां नवशाखम्, श्रीजिनस्यैकविंशतिशाखं द्वारम् । अष्टोत्तरशतं च 5 मण्डपाः । रुद्रादीनामेक एव । श्रीजिनस्य पद्मासनं, छत्रं, पादान्ते नवग्रहाः, सिंहासनं च । नान्यदेवानाम् । चेत् कश्चित् कारयति, सूत्रधारः करोति, तदा द्वयोर्विघ्नमुत्पद्यते । नान्यथात्वं वास्तुविद्यायाः सर्वज्ञभाषित्वात् । एतदाकर्ण्य राजा प्रमुदितः । स्वयं राजविहारे कलशाधिरोपणादिकमकारयत् । 10 15 20 25 ९४ २९. मुद्गानुद्गतमुद्गरानुरुगदाघातोद्यतान् व्यन्तरान्, वेतालानतुलानलाभविकटान् झोटिङ्गचेटानपि । जित्वा सत्वरमाजितः पितृवने नक्तं चराधीश्वरं, बद्ध्वा बर्व्वरमुर्वरापतिरसौ चक्रे चिरात् किङ्करम् ॥१॥ एवं सर्वत्राखण्डप्रतापो जयसिंहो राज्यं करोति । * ✡ १७. इतश्च क्षेमराजस्य पुत्रो देवप्रसादक: । तस्य पुत्रास्त्रिभुवन - देवपालादयोऽभवन् ॥३२॥ त्रिभुवनपालस्याभूत् सुतैका तनयास्त्रयः । आद्यः कुमारपालाख्यो राजलक्षणलक्षितः ||३३|| महीपालः कीर्तिपालस्तथा प्री ( प्रे ) मलदेव्यभूत् । श्रीकृष्णदेवभट्टेन योदूढा मोहडवासके ||३४|| भार्या भोपलदेवीति कुमारस्य बभूव च ।° अत्रान्तरे सिद्धराजो दैवज्ञं पृष्ठवानिति ॥ ३५ ॥ मम पट्टे को भविता सोऽप्यूचेऽस्ति महाभुजः । मध्ये दधिस्थलीकाया यस्ते भ्रातृव्यनन्दनः ||३६|| राज्यं नो मम पुत्रस्य जीवति भ्रातृनप्तरि । तत्तं ज्ञात्वा हनिष्यामीत्यचिन्तयदयं नृपः ||३७|| • कुमारपालस्य पुत्री लीलू । इति टिप्पण्याम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy