________________
कुमारपालप्रबोधप्रबन्धः ।
९३
अन्तरा अन्तरायीभूतेन श्रीसिद्धराजेन विज्ञपयाञ्चक्रे - 'स्वामिनि ! अलममुना सम्भ्रमेण, कुतो हेतोः पश्चान्निवर्त्यते ?' - इति राज्ञाऽभिहिते 'यदैव सर्वथा अयं करमोक्षो भवति तदैवाहं श्रीसोमेश्वरं प्रणमामि नान्यथेति । किञ्च - अतः परमशन-नीरयोश्च नियमः ' इति राजा श्रुते पञ्चकुलमाकार्य तत्पट्टकस्यान्ते द्वासप्ततिलक्षान् उत्पद्यमानान् विमृश्य, तं पट्टकं विदार्य मातुः श्रेयसे तं करं मुक्त्वा, तत्करे जलचुलुकं मुञ्चति स्म । तदनु विप्राः 5 पृष्टाः - 'करमोक्षे किं फलम् ?' तैरूचे
२७. अकरे करकर्त्ता च गोसहस्त्रवधः स्मृतः ।
प्रवृत्तकरविच्छेदे गवां कोटिफलं लभेत् ॥१॥
इति स्मृति: तच्छ्रुत्वा मुदितो राजा । अथ सा श्रीसोमेश्वरं गत्वा तया सुवर्णपूजयाऽभ्यर्च्य तुलापुरुषगजाश्वगोदानादीनि दत्त्वा महादानानि प्रदाय, 'मत्सदृशा 10 काऽपि नाभूत् न भविष्यती 'ति दर्पाध्माता निशि निर्भरं प्रसुप्ता । तपस्विवेषधारिणा तेनैव देवेन जगदे - 'इहैव मदीयदेवकुलमध्ये काचित् कापटिकनितम्बिनी यात्रायै समायाताऽस्ति । तस्याः सुकृतं याचनीयं त्वया' इत्थमादिश्य तिरोहिते तस्मिन्, राजपुरुषैर्विलोक्य सा समानीता । तस्मिन् पुण्ये याचितेऽप्यददाना कथमपि, 'त्वया यात्रायां किं व्ययीकृतमिति उक्ता सती, सा प्राह- 'भिक्षावृत्त्या मया योजनशतानि 15 देशान्तरमतिक्रम्य ह्यस्तनदिवसे कृततीर्थोपवासा पारणकदिने कस्यापि सुकृतिनः सदने भोजनार्थमुपविष्टा । तदर्द्धमतिथये दत्त्वा च स्वयं पारणकमकार्षम् । भवती पुण्यवती यस्याः पितृ-भ्रातरौ नृपौ पति - सुतौ च राजानौ । बाहुलोडकरद्वासप्ततिलक्षान् मोचयित्वा सपादकोटिमूल्यया सपर्यया अगण्यपुण्यमर्जयन्ती, मदीयपुण्ये कृशेऽपि कथं लुब्धासि ? । अन्यच्च - हे मयणल्लदेवि ! यदि न कुप्यसि तदा किञ्चिद् वच्मि | 20 तत्त्वतस्तव पुण्यात् मम पुण्यं महीतले महीयः । यतः -
२८. सम्पत्तौ नियम: शक्तौ सहनं यौवने व्रतम् ।
दारिद्रये दानमत्यल्पमपि लाभाय भूयसे ॥१॥
इति तस्या युक्तियुक्तेन वाक्येन सर्वङ्कषं गर्वं विससर्ज । श्रीपत्तनं प्राप्ता ।
✡
-
★ §§१६. अन्यदा सिद्धपुरे रुद्रमहालयप्रासादे निष्पद्यमाने मन्त्रिणा च 25 चतुर्मुखश्रीराजविहाराख्य श्रीमहावीरप्रासादे कार्यमाणे पिशुनप्रवेशे राजा स्वयमवलोक
1. B'सा' इत्यस्योपरि 'कार्पटिकभार्या' इति B आदर्शे टिप्पणी । ★★ चिह्नद्वयवर्ती षोडशमी कण्डिका समग्राऽपि Pa प्रत्योर्नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org