SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ९२ कुमारपालचरित्रसङ्ग्रहः यथावस्थितं निवेद्य च, तरोश्छायायां पुंस्त्वनिबन्धनमौषधं तन्निर्बन्धादादिश्य तिरोदधे । सा तदनु तदीयां छायां रेखाङ्कितां निर्माय तन्मध्यवर्तिन औषधाङ्करान् उच्छेद्य वृषभवदने निक्षिपन्ती, तेनाऽप्यज्ञातस्वरूपेण औषधाङ्करेण वदनन्यस्तेन स वृषभो मनुष्यतां प्राप । यथा तदज्ञातस्वरूपेणापि भेषजाङ्करेण सा समीहितां कार्यसिद्धिं चकार, तथा कलियुगे 5 मोहान्धिते तिरोहितपात्रपरिज्ञाने सभक्तिकं सर्वदर्शनाराधनेनाविदितस्वरूपमपि मुक्तिप्रदं भवतीति निर्णयः । पुनः पात्रपरीक्षाविचारे श्रीहेमसूरयः प्राहुः- राजन् ! द्वैपायन-युधिष्ठिर-भीमसंवादे पात्रपरीक्षायां भीमः प्राह २३. मूर्खस्तपस्वी राजेन्द्र ! विद्वांश्च वृषलीपतिः । 10 उभौ तौ द्वारि तिष्ठेते कस्य दानं प्रदीयते ॥१॥ युधिष्ठिर उवाच२४. सुखासेव्यं तपो भीम ! विद्या कष्टदुरासदा । विद्वांसं पूजयिष्यामि तपसा किं प्रयोजनम् ॥२॥ भीमोऽप्यूचे२५. श्वानचर्मगता गङ्गा क्षीरं मद्यघटस्थितम् । अपात्रे पतिता विद्या किं करोति युधिष्ठिर ! ॥३॥ द्वैपायन उवाच२६. न विद्यया केवलया तपसा चापि पात्रता । यत्र ज्ञानं क्रिया चोभे तद्धि पात्रं प्रचक्षते ॥४॥ __ 20 एवंविधगुणपात्रभक्त्या मुक्तिः - इति श्रीहेमचन्द्राचार्यैः सर्वदर्शनसम्मते निवेदिते सति सर्वधर्मान् श्रीसिद्धराज आरराध । 15 88१५. अथ सा मयणल्लदेवी जातिस्मरणात् पूर्वभववृत्तान्ते श्रीसिद्धराजे निवेदिते सति श्रीसोमनाथयोग्यां सपादकोटिमूल्यां हैममयीं पूजां सहादाय बाहुलोडनगरे सम्प्राप्ता । तत्र पञ्चकुलेन कार्पटिकेषु कदर्थ्यमानेषु राजदेयविभागस्याप्राप्त्या सबाष्पं 25 पश्चान्निवर्त्यमानेषु श्रीमयणल्लदेवी हृदयादर्शसङ्क्रान्तबाष्पा स्वयमेव पश्चाव्याघुटन्ती 1. B तरोर्मूले तच्छायान्तः पुं० । 2. B निक्षेपयामास । 3. B वापि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy