________________
कुमारपालचरित्रसङ्ग्रहः
इति श्रीआदिजिनं स्तुत्वा द्वादशग्रामान् देवदायं कृत्वा, विविधतोरणपताकालक्षलक्षितं श्रीपत्तनं प्राप ।
९०
§§१३. प्रतिदिनं सर्वदर्शनेषु आशीर्वाददानायाहूयमानेषु यथावसरमाकारिता जैनाचार्याः श्रीहेमचन्द्रमुख्याः । सिद्धराजनृपेण दुकूलादिनाऽऽवर्जिताः । सर्वैरवि 5 कविभिरप्रतिमप्रतिभाभिरामैर्द्विधाऽपि पुरस्कृतो नृपतये श्रीहेमचन्द्र इत्याशिषं पपाठ१९. भूमिं कामगवि स्वगोमयरसैरासिञ्चरत्नाकरा,
मुक्तास्वस्तिकमातनुध्वमुड्डप त्वं पूर्णकुम्भीभव | छित्त्वा कल्पतरोर्दलानि सरलैर्दिग्वारणास्तोरणान्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ॥ १ ॥
10
अस्मिन् काव्ये निष्प्रपञ्चे प्रपञ्च्यमाने तद्वचनचातुरीचमत्कृतचेता नृपतिस्तं प्रशंसन्, कैश्चिदसहिष्णुभिरस्मच्छास्त्राध्ययनबलादेतेषां विद्वत्तेत्यभिहिते, राज्ञा पृष्टाः श्रीहेमचन्द्राचार्याः प्राहु: - 'पुरा श्रीजिनेन श्रीमन्महावीरेण इन्द्रस्य पुरतः शैशवे यद्व्याकृतं तत् जैनेन्द्रं व्याकरणं वयमदीयामहे ।' इति वाक्यानन्तरम्, 'इमां पुराणवार्त्तामपहाय, अस्माकं संनिहितं कैमपि व्याकरणकर्त्तारं ब्रूत ।' इति तत्पिशुनवाक्यानन्तरं 15 नृपं सूरयः प्राहुः- ‘यदि श्रीसिद्धराजः सहायीभवति, तदा कतिपयैरेव दिनैः पञ्चाङ्गमपि नूतनं व्याकरणं स्वयं रचयामः ।' अथ नृपेण प्रतिपन्नम् । 'राजन् ! इदं भवता निर्वहणीयमि'त्यभिधाय तद्विसृष्टाः स्वपदं सूरयः प्रापुः । ततो बहुभ्यो देशेभ्यस्तत्तद्वेदिभिः पण्डितैः समं सर्वाणि व्याकरणानि समानीय श्रीहेमचन्द्राचार्यैः श्रीसिद्धहेमाभिधानं प्रदानमभिनवं पञ्चाङ्गमपि व्याकरणं सपादलक्षग्रन्तप्रमाणं संवत्सरेण रचयाञ्चक्रे । 20 राजवाह्यकुम्भिकुम्भे तत्पुस्तकमधिरोप्य सितातपवारणे ध्रियमाणे चामरग्राहिणीभ्यां चामरयुग्मं वीज्यमानं नृपमन्दिरमानीय, प्राज्यवर्यसपर्यापूर्वकं कोशागारे न्यधीयत । नृपाज्ञयाऽन्यानि व्याकरणानि अपहाय तस्मिन्नेव व्याकरणे सर्वथाऽधीयमाने, केनापि मत्सरिणा भवदन्वयवर्णनाविरहितं व्याकरणमिति व्याहरता, क्रुद्धं [ नृपं ] नृपाङ्ग[ रक्षक वचनादवबुद्ध्य द्वात्रिंशत् श्लोकान्, नूतनान् निर्माय, द्वात्रिंशत्सूत्रपादेषु तान् 25 सम्बद्धानेव "लेखित्वा प्रातर्नृपसभायां वाच्यमाने व्याकरणे
1. B सर्वदर्शनिषु । 2. B धृत्त्वा । 3. B शनकैर्दि० । 4 B अस्माकमपि । 5. B कमपि जैनं व्या० । 6. B व्याहृतम् । 7. B क्रुद्धे नृपतौ । 8 B वचनात् तदव० । 9 B निर्माय दैवशक्त्या श्री हेमचन्द्राचार्या द्वात्रिं० | 10 B लेखयति स्म । प्रात० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org