________________
कुमारपालप्रबोधप्रबन्धः ।
भावी । तदा वामनस्थलीनिवासिभिर्व्यवहारिभिर्दण्डदानं प्रतिपन्नम् । अथ पञ्चत्वमापन्ने कर्णदेवे महीपतौ ।
श्रीमान् जयसिंहदेवः स्वयं राज्यमपालयत् ॥२९॥
ततः समुद्रमर्यादा मही तेन वशीकृता । सिद्धो बर्बरकश्चाथ सिद्धराजस्ततोऽभवत् ॥३०॥
१५. परं ज्योतिः परब्रह्म परमात्मानमित्यपि ।
इति घनतरेषु देशेषु निजाज्ञां जगन्मान्यां दापयित्वा वलमानो रैवताचलासन्नां वामनस्थलीं प्राप । तत्र दण्डनायकमाकार्य दण्डमयाचत । दण्डाधिपेनोक्तम् — श्रीरेवताचलोपरि महाऽभयस्थाने निक्षिप्तोऽस्ति । ततो राजा रैवताचलं गन्तुमिच्छुविप्रैर्मात्सर्याल्लिङ्गाकारमिति निषिद्धोऽपि श्रीकर्णस्य निजपितुर्गमनं श्रुत्वा छत्रशिलायां छत्रमोचनं च कृत्वा गतः । तत्र गजेन्द्रपदकुण्डे स्नात्वा श्रीनेमिजिनपूजां विधाय तुष्टाव | 10
यथा
यं स्तुवन्ति बुधा नित्यं स श्रीनेमिजिनः श्रिये ॥ १ ॥
१६. चिदानन्दमयं यस्य स्वरूपं योगचक्षुषा ।
पश्यन्ति योगिनो नित्यं स श्रीनेमिजिनः श्रिये ॥२॥
Jain Education International
१८. चराचरं जगत्सर्वं यस्यान्तः प्रतिबिम्बितम् । तस्मै युगादिदेवाय परमज्योतिषे नमः ॥२॥
८९
इत्यादि स्तुत्वा, धर्मशिलायामुपविश्य प्रासादरम्यतां विलोक्योचे - धन्यौ मातृपितरौ तस्य, येनेदं मन्दिरं कारितम् । अत्रावसरे परशुराम उवाच - 'राजन् ! धरणीतले श्रीकर्णदेव-मयणल्लदेव्यौ धन्यौ, ययोः भवान् सूनुः । श्रीकर्णविहारोऽयं मत्पित्रा कारितो वर्षत्रयोद्ग्राहितव्ययेन । यदि देवपादानां प्रासादेच्छा विद्यते तदा प्रासादः; यदि वा द्रव्येच्छा, तदा द्रव्यं व्यवहारिगृहे स्थापितमस्ति । तन्निशम्य प्रमुदितो राजा प्राह - 20 'भव्यं सज्जनेन दण्डाधिकारिणा कृतम् । यदत्र कृत्यं भवति तत्सर्वमपि त्वं कारय ' इत्यादिश्य देवदाये ग्रामद्वादशकं दत्वा श्रीशत्रुञ्जयमाजगाम । आकृष्टकृपाणकैर्विप्रैर्निषद्धो रात्रौ समारुरोह । श्रीयुगादिदेवस्य सरोमाञ्चं पूजां विधाय स्तुतिमकरोत् । यथा१७. नमोऽस्तु युगादिदेवाय तस्मै ज्ञानमयात्मने । प्रावर्त्तन्त यतः सर्वा हेयोपादेयबुद्धयः ॥१॥
1. B तद् । 2. B श्रीजयसिंहदेवः स श्रीमान् राज्य० । 3. B बर्बरको यक्षः । 4. B ऽस्ति निधिः । ततो । 5. B ल्लिङ्गान्तरमिति ।
For Private & Personal Use Only
5
-
15
25
www.jainelibrary.org