SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 10 कुमारपालचरित्रसङ्ग्रहः तदेनमनुजानीहि पाषाणखनिमादिश । अम्बाऽप्यूचे भवत्वेतदल्पायुः पुनः सज्जनः ॥२३।। दण्डाधिपः प्राह कार्यस्तीर्थोद्धारो विशेषतः । परलोकप्रस्थितानां पाथेयं धर्म एव यत् ।।२४।। १३. दीपे म्लायति तैलपूरणविधिः स्तोयं द्रुमे शुष्यति, प्रावारो हिमसङ्गमे जलगृहं ग्रीष्मज्वरोज्जागरे । निर्वातं कवचं शरद्व्यतिकरे रोगोद्भवे भेषजम्, धर्मो मृत्युमहाभये सति सतां संसेवितुं युज्यते ॥१।। अम्बानुज्ञां ततो लब्ध्वा पाषाणस्य खनिं च सः । श्रीनेमिचैत्यं षण्मास्यां कलशान्तमकारयत् ॥२५।। ज्येष्ठस्य सितपञ्चम्यां शिरोऽर्त्याऽऽर्तोऽथ सज्जनः । अम्बादेवीवचः स्मृत्वा जातपञ्चत्वनिश्चयः ॥२६।। आदिश्य परशुरामं स्वपुत्रं ध्वजरोपणे । भद्रेश्वरगुरोः पार्वे संस्तारव्रतमग्रहीत् ॥२७।।* दिनाष्टकं पालयित्वाऽनशनं सज्जनो मुनिः । दिवं जगाम पुत्रोऽथ ध्वजारोपं व्यधापयत् ॥२८॥ 88१२. द्वयोः राज्ञोर्नैकत्रावस्थानं युक्तमिति आशापल्लीनिवासिनं प्रबलभुजबलशालिनं आशाकं भिल्लं जित्वा कर्णावती पुरीं विधाय, २९ वर्षाणि राज्यं कृत्वा पञ्चत्वमाप । अत्रान्तरे परशुरामेणाचिन्ति-राजा जयसिंहनामा दण्डं शोधयिष्यति तदा किं 1. B सञ्जनः पुनः । 2. B ग्रीष्मे । 3. B शरव्य० । ★ सप्तविंशतितमश्लोकानन्तरमिदमधिकं पद्ययुग्मम् जयति यदुवंशकेतुः शिवहेतुः सकण (सकलकर्म) कुलकेतु( तुः)। विषयदु(द्रु)लवननेमिः शतनेमिधरार्चितो नेमिः ॥१॥ [न] यान्ति नामग्रहणेन येषां केषां न[ राणां ?] दुरितानि तानि । तपः प्रभावाः प्रथयतन्तु ते नो भद्राणि भद्रेश्वरसूरिपादाः ॥२॥ Pa E 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy