________________
15
१०. यतः - स्वापदि तथा महान्तो न यान्ति खेदं यथा परापत्सु । अचला निजोपर्हतिषु प्रकम्पते भूः परव्यसने ॥१॥
इति न्यायात्, तदाग्रहादेव, अनिच्छुनापि सर्वथा श्रीकर्णेन सा परिणिन्ये । तदनन्तरं हैग्मात्रेण सर्वथा तामसम्भावयन्, कस्यामधमयोषिति साभिलाषं नृपं मुञ्जालमन्त्री 5 कञ्चुकिना विज्ञाय, तद्वेषधारिणीं मयणल्लदेवीं ऋतुस्नातामेव रहसि प्राहिणोत् । तामेव स्त्रियं जानता नृपतिना सप्रेम भुज्यमानायास्तस्या आधानं समजनि । तदा च तया सङ्केतज्ञापनाय नृपकरात् नामाङ्कितमङ्गुलीयं निजाङ्गुल्यां न्यधायि । प्रातः तद्दुर्विलसितात् प्राणपरित्यागोद्यताय नृपतये स्मार्त्तेस्तप्तताम्रमयपुत्तलिकालिङ्गनमिति निवेदिते, प्रायश्चित्ताय तत्तथैव चिकीर्षवे, स मन्त्री यथावदथावदत् । सुलग्ने जातस्य तस्य सूनोर्नृपतिना 10 जयसिंह इति नाम निर्ममे । स बालकस्त्रिवार्षिकः सवयोभिः समं रममाणः सिंहासनमलञ्चक्रे । तद् व्यवहारविरुद्धं विमृश्य नृपेण पृष्टैर्नैमित्तिकैस्तस्मिन्नेवाभ्युदयिनि लग्ने निवेदिते राजा तदैवाभिषेकं चकार । स्वयं तु देवयात्रायां गन्तुमना अभूत् ।
पालयत्यन्यदा राज्यं जयसिंहे नरेश्वरे । चचाल देवयात्रायां कर्णः कर्ण इवापरः ||६|| श्रीदेवपत्तनादर्वाक् गव्यूतैः सप्तभिः स्थितः । प्रासादं सोमनाथस्य दृष्ट्वाऽभिग्रहमग्रहीत् ॥७॥ यथा- पापक्षयं हारं चन्द्रादित्याख्यकुण्डले । श्रीतिलकमङ्गदं च परिधाय समाहितः ॥८॥ यदा सोमेश्वरं देवं पूजयिष्यामि भक्तितः । भोक्ष्ये तदाशनं पानं ताम्बूलमपि नान्यथा ॥ ९ ॥ स्नात्वा प्रभासे श्रीकर्णो यदायाचत भूषणम् । कोशाधिपस्तदा स्माह नादिष्टं स्वामिभिस्ततः ||१०|| आभरणं पत्तनेऽस्थात् विषण्णश्च ततो नृपः । तदा मदनपालाख्यो मण्डलीकोऽब्रवीदिति ॥११॥ मा विषीद महाराज ! मन्त्रसिद्धिधरा यतः । मया सन्ति सहानीताः श्रीधनेश्वरसूरयः ॥ १२॥
20
८६
25
कुमारपालचरित्रसङ्ग्रहः
1. B व्हन्तृषु । 2. B ज्ञात्वा मात्राग्रहादेव । 3. B हग्मात्रेणापि । 4. B तां न सम्भावयति अन्यदा क० । 5. B चिकीर्षतो राज्ञः स । 6. B विमृशता । 7. B कोषाध्यक्षस्तदा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org