________________
कुमारपालप्रबोधप्रबन्धः ।
क्षेमराज - कर्णदेव तत्पुत्रौ भिन्नमातृकौ । परस्परं प्रीतिभाजौ यथा राघव - लक्ष्मणौ ॥१॥ कर्णमातुस्ततस्तेन भीमदेवेन चैकदा । प्रतिपन्नं राज्यदानं श्रीकर्णस्य लघोरपि ॥२॥ वशीकर्तुमिव स्वर्गं भीमदेवे दिवङ्गते । द्विचत्वारिंशद् वर्षाणि राज्यं कृत्वा मनोरमम् ||३|| सौदर्यवर्यगाम्भीर्यप्रज्ञाबुद्धिगुणोत्तमे ।
राज्यक्षमे क्षेमराजे कर्णो राज्यं न वाञ्छति ||४||
राम इव क्षेमराजः स्मृत्वा भाषां पितुस्ततः । कर्णं महोपरोधेन स्वयं राज्ये न्यवीविशत् ॥५॥
Jain Education International
८५
1. B ०लभभाना । 2. B व्वती । माता च राजानम् । ततो जय० । 3. B श्रीकर्णः स च स्व० । 4. B तस्यां मन्दादरः । जयकेशिनृपस्तु तस्मि । 5. B निरादरतापरो । 6. B प्राणानपि । 7. B परिजिहीर्षुः काष्ठचिन्तां कारितवती । श्रीउद० ।
§§११. तस्य राज्ञी मयणल्लदेवी । तस्याः स्वरूपं किञ्चिदुच्यते - शुभकेशिनामा कर्णाटराट्तुरङ्गमापहृतः प्रान्तरप्रान्तभूमौ नीतः । कुत्रापि पत्रलवृक्षच्छायां सेवमानः प्रत्यासन्नदावपावके प्राणानामाहुतिं चाकरोत् । तत्सूनुः जयकेशिनामा तद्राज्ये सचिवैरभिषिक्तः । तस्य राज्ञी विजया । तत्सुता मयणल्लदेवी नाम्नी समजनि । सा च शिवभक्तैः श्रीसोमेश्वरस्य नाम्नि गृहीतमात्र एव इति पूर्वभवमस्मार्षीत् - 'यत् पूर्वभवेऽहं 15 ब्राह्मणी द्वादशमासोपवासान् कृत्वा, प्रत्येकं द्वादशवस्तूनि तदुद्यापनके दत्त्वा, श्रीसोमेश्वरनमस्याकृते बाहुलोडनगरं प्राप्ता । तत्करं दातुमक्षमाऽग्रतो गन्तुमलभमानाच्च - " अहमागामिभवेऽस्य करस्य मोचयित्री भूयासं" - इति कृतनिदाना विपद्यात्र जाता' - इति पूर्वभवस्मृतिः । अथ सा श्रीबाहुलोडकरमोचनाय गूर्जरेश्वरं प्रवरं वरं कामयमाना मातरं प्रति तं वृत्तान्तं निवेदितवती । जयकेशिराज्ञाऽपि तं व्यतिकरं ज्ञापित: 20 श्रीकर्णः । स्वप्रधानपुरुषैः मयणल्लदेव्याः कुरूपतां निशम्य तस्मिन्मन्दादरे, तस्मिन्नेव राज्ञि निर्बन्धपरां तामेव स्वयंवरां प्राहिणोत् । अथ श्रीकर्णनृपो गुप्तवृत्त्या स्वयमेव तां कुत्सितरूपां विलोक्य सर्वथा निरादरपरो जातः । ततः सा दिक्कन्याभिरिव मूर्ति - मतीभिरष्टाभिः सहचरीभिः सह नृपतिहत्याकृते प्राणान् परिजिहीर्षुः, श्रीउदयमत्या राज्ञ्या तासां विपदं द्रष्टुमक्षमतया ताभिः सह प्राणसङ्कल्पश्चक्रे ।
For Private & Personal Use Only
5
10
25
www.jainelibrary.org