________________
कुमारपालप्रबोधप्रबन्धः । भूयराजराज्यम् । पञ्चविंशतिवर्षं वैरसिंहराज्यम् । पञ्चदशवर्षं रत्नादित्यराज्यम् । सप्तवर्ष सामन्तसिंहराज्यम् । एवं चापोत्कटकुले सप्तराजानोऽभूवन् । एवं वर्षाणि १९६ । ततो दौहित्रसन्ताने चौलुक्यकुले राज्यं गतम् ।
६७. कथं गतम् ?-तथा चाह - कन्यकुब्जीयचौलुक्यश्रीभूयडराजस्य सुतः कर्णादित्यः, तत्पुत्रचन्द्रादित्यस्तत्पुत्रसोमादित्यस्तत्पुत्रो भुवनादित्यः । तस्य राज- 5 बीजदड्डक्कनामानस्त्रयः पुत्राः । प्रथमो राजकुमारः ।
७. दीसइ विविहच्चरियं जाणिज्जइ सुजण-दुज्जणविसेसो ।
___ अप्पाणं च कलिज्जइ हिंडिज्जइ तेण पुहवीए ॥१॥ इति विचार्य देशान्तरेषु परिभ्रमन् श्रीपत्तने समायातः । सामन्तसिंहं नृपं वाहकेली कुर्वन्तं दृष्ट्वाऽश्वघाते राज्ञा दत्ते राजकुमारोऽनवसरदत्तेन कशाघातेन पीडितो 'हा हेति' 10 शब्दमकरोत् । राज्ञा कारणं पृष्टोऽवदत्-'देव ! अश्वे कृतशोभनगतौ कशाघातो मम मर्माभिघातः सञ्जातः'। ततो राज्ञा तस्यार्पितोऽश्वः । तेन चाश्वशिक्षाकुशलेन दर्शितं वाहकेलीकौतुकम् । जातस्तयोः सदृशो योगः । ८. यतः- अश्वः शस्त्रं शास्त्रं वाणी वीणा नरश्च नारी च ।
पुरुषविशेष प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥१॥ ततः सामन्तसिंहनृपेणाचारादिभिर्महत्कुलमाकलय्य; ९. यतः- अभणंताण वि नज्जइ माहप्पं सुपुरिसाण चरिएण ।
कि बुलंति मणीओ जाओं सहस्सेहिं घिप्पंति ॥१॥ इति सञ्चिन्त्य राजकुमारस्य महताग्रहेण लीलादेवीनाम्नी स्वभगिनी ददे । अन्यदा कालान्तरे साऽऽपन्नसत्त्वा जाता । तस्या अकाण्डमरणे सचिवैरुदरं विदार्य कर्षित- 20 मपत्यम् । मूलनक्षत्रे जातत्वात्, मूलराजोऽयमिति नाम कृतम् । तज्जन्मतो राज्यादिवृद्धि दृष्ट्वा मदमत्तेन सामन्तसिंहेन स कुमारो राज्येऽभिषिच्यते, गतमदेन चोत्थाप्यते । तदादि चापोत्कटानां दानमुपहासाय जातम् । तदुक्तम्-'चाउडा दाति ।' एकदा मदमत्तेन स्थापितो राज्ये मूलराजः । तेन च विकलोऽयं मातुल इति विज्ञाय विनाशितः, गृहीतं स्वयमेव राज्यम् । संवत् ९९८ वर्षे जातो राज्याभिषेकः ।
15
25
1. भूयगडदेवराज्यम् । 2. B चापोत्कटराजकुले । 3. तत्पुत्रचन्द्रादित्य० इति पाठ: B आदर्श न वर्तते । 4. B .भिषेको मूलराजस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org