________________
कुमारपालचरित्रसङ्ग्रहः भुक्तोऽहमति सर्वं हित्वा गतः । प्रातस्तत्पुत्र्या श्रीदेव्या गोरसे हस्ताङ्गलिचिह्नानि घृतभृतानि दृष्ट्वा 'कोऽप्ययं महापुरुषो भाग्यवान्' इति तं बान्धवत्वेन प्रतिपद्य, 'तं दृष्ट्वा मोक्ष्यामी'ति कृतप्रतिज्ञा । तत्स्वरूपमाकर्ण्य रात्रौ समागतो वनराजो गुप्तवृत्त्या
भोजनवस्त्रादिना सत्कृतो 'मम राज्याभिषेके त्वयैव भगिन्या तिलकं कार्य'मिति प्रतिज्ञाय 5 गतः ।
६६५. अन्यदा वनराजेन क्वापि वने जाम्बाको वणिक् रुद्धः । शरपञ्चकमध्यात्, स शरद्वयं भूमौ मुञ्चन् कारणं पृष्टः प्राह-'यूयं त्रयो जनाः, शरास्तु पञ्च; तेन द्वाभ्यामधिकाभ्यां किं प्रयोजनमिति'-तेने प्रोक्ते 'कोऽप्ययं सत्त्वशाली शूरः पुमान्, मम
राज्यकाले महामात्यो भावी'ति मुक्तो जाम्बाकः कृतप्रणामः किमपि शम्बलादिकं दत्त्वा 10 गतः । एकदा गूर्जरपञ्चकुलं षण्मासैरुद्ग्राहितसुराष्ट्रामण्डलं चतुर्विशतिलक्षहैमनाणकान्
चत्वारि शतानि जात्यतुरङ्गमान् लात्वा व्याघुट्यमानं पथि वनराजेन हत्वा सर्वं जगृहे । ततो वर्ष यावत् कालुम्भारवने स्थितिं कृत्वा कन्यकुब्जस्थितिरुत्थापिता ।।
६६. ततो नवीनपुरनिवेशाय भूमिं विलोकयता वनराजेनाऽणहिल्लो नाम गोपः प्राप्तः । तेन यत्र शशकेन श्वा त्रासितस्तत् स्थानं दर्शितम् । ततस्तन्नाम्ना अणहिल्लपुरं 15 पत्तन सकलवास्तुविद्याविचारपुर:सरप्राकार-प्रतोली-परिखा-प्रासाद-विहार-हर्म्य
हस्तिशाला-तुरङ्गमशाला-भाण्डागार-कोष्ठागार-आयुधशाला-राजसभा-अलङ्कारसभास्नानगृह-भूमिगृह-धर्मशाला-दानशाला-सत्रागार-पानीयशाला-नाट्यगृह-क्रीडागृहशान्तिगृह-शिल्पशाला-चन्द्रशालादिभिविशालं स्थापितम् । ततः पञ्चाशद्वर्षवयसो
वनराजस्य राज्याभिषेकः । श्रीपत्तने संवत् ८०२ वर्षे श्रीशीलगुणसूरिभिज॑नमन्त्रै 20 राज्यस्थापना कृता । तदा पुरा प्रतिपन्नभगिन्या तिलकश्चक्रे । तस्या महाप्रसादः । जाम्बाकः सर्वराजकार्यक्षमो महामात्यः समभूत् ।
__ श्रीगुरूपदेशेन राजा वनराजः पुण्यवान् कृतज्ञः पञ्चासरग्रामे श्रीपार्श्वनाथप्रतिमालङ्कृतनिजाराधकमूर्तियुतं प्रासादमचीकरत् ।
६. गूर्जराणामिदं राज्यं वनराजात् प्रभृत्यपि । 25 स्थापितं जैनमन्त्रैस्तु तद् द्वेषी नैव नन्दति ॥१॥
इति लोके प्रसिद्धिरभूत् । ततः षष्टिवर्षं वनराजस्य राज्यम् । पञ्चत्रिंशद्वर्ष तत्पुत्रयोगराजराज्यम् । पञ्चविंशतिवर्षाणि क्षेमराजराज्यम् । एकोनत्रिंशद्वर्षाणि
1. B ०कुब्जराज्यस्थिति० । 2. B चक्रे । 3. B ०प्रसादः कृतः । 4. B लङ्कृतं नि० । ★ 'गुर्जराणामिदं' इत्यारभ्य 'प्रसिद्धिरभूत्' इत्येतदन्तः B प्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -