________________
कुमारपालप्रबोधप्रबन्धः । प्रतिष्ठस्य सकलजन्तुजातजीवातुजीवदयाधर्मनिष्ठस्य निज जबलकलितसकलभूपालकुलविजयविलसद्यशःप्रतापगरिष्ठस्य श्रीकुमारपालभूपालस्य प्रारभ्यतेऽयं प्रबोधप्रबन्धः ।
तत्र केऽपि जिज्ञासवः प्रश्नयन्ति–'कोऽयं कुमारपालभूपालः, कश्चायं कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरिगुरुः । कथं च तस्य प्रतिबोधः ?' - इति सर्वमिदमावेद्यमानं श्रूयताम् ।
5 ६६२. तथाहि-अस्मिन् जम्बूद्वीपे द्वीपे भरतक्षेत्रे युगलधर्मकाले प्रवर्त्तमाने तृतीयारकपर्यन्ते सप्तकुलकराः पुराऽभूवन् । तेषु सप्तमः श्रीनाभिकुलकरः, तस्यादियोगिनी मरुदेवास्वामिनी धर्मपत्नी बभूव । तयोः पुत्रः सकलधर्मार्थकाममोक्षाणां चतुःपुरुषार्थानां प्रथमः प्रसाधकः, परेषामुपकाराय प्रथमोपदेष्टा, प्रथमः पुरुषः, प्रजानां सम्यग्योगक्षेमकरणात् प्रथमो नाथः, शैशवे प्रचुरेक्षुयष्टिकृतावष्टम्भहृष्टत्वात् प्रणामाग-10 तेन्द्रस्थापितक्ष्वाकुवंशः, समग्रैश्वर्यादिगुणोपेतत्वात् प्रथमो भगवान्, प्रथमो जिनः समजनि। तस्मिश्चक्ष्वाकुवंशे क्रमेण षट्त्रिंशद् राजकुलान्यभूवन् । तेषु महापुरुषरत्नसङ्कुले श्रीचौलुक्यकुले षट्त्रिंशल्लक्षग्रामाभिरामे कन्यकुब्जदेशे कल्याणकटकपुरे श्रीभूयराजा राज्यं करोति । तेन राज्ञा स्वपुत्र्या महणल्लदेव्या गूर्जरधरित्रीकञ्चकसम्बन्धे दत्ता ।
15
६६३. इतश्च गर्जरात्रैकदेशे वढियारदेशे पञ्चासरग्रामप्रदेशे बहिः श्रीशीलगुणसूरयः शकुनावलोकनार्थं गता वनगहनमध्ये वृक्षशाखानिबद्धझोलिकं बालकमेकं दृष्ट्वा समीपस्थतन्मातरमूचुः- 'भद्रे ! काऽसि त्वम् ?।' तयोक्तम् - 'राजपत्नी अहम् । कन्यकुब्जदेशीयश्रीभूयराजभयेन चापोत्कटकुलकमलकमलबन्धोरस्य पुत्रस्य गोपनार्थमत्र स्थिताऽस्मि'। ततः श्रीसूरिभिरपराह्नेऽपि तदृक्षच्छायामनमितामालोक्य 'कोऽप्ययं 20 महानरेश्वरो भावी'ति तत्स्वरूपं श्राद्धानामावेद्य तस्य रक्षा कारिता । स च बालकः श्रीगुरुदत्तवनराजनामाऽष्टवार्षिको राजचिह्न: क्रीडन् परबालकासह्यतेजाः समभूत् । ५. यतः- पीऊण पाणियं सरवरम्मि पिढेि न दिति सिहिडिंभा ।
होही जाण कलावो पयइ च्चिअ साहए ताण ॥१॥ ६६४. ततः श्राद्धैर्मातुः समर्पितः सन् स चौरमातुलेन सह घाट्यादौ परिभ्रमन, 25 अन्यदा काकरग्रामे कस्यापि धनिनो गृहे खात्रं दत्वा प्रविष्टो दधिभाण्डे करे पतिते सति
1. B प्रवरेक्षु० । 2. B प्रणामागतसुरपतिस्था० । 3. B ग्रामाभिगमे । 4. B झोलिकायां । 5. B समीपस्था त० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org