________________
कुमारपालगुणोत्कीर्तनश्लोकाः ।
स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरेग्नन्यतुल्यामुपदेशशक्तिम् ।। अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुळधित प्रबोधम् ॥
सत्त्वानुकम्पा न महीभुजां स्यादित्येष क्लृप्तो वितथः प्रवादः । जिनेन्द्रधर्मं प्रतिपद्य येन श्लाध्यः स केषां न कुमारपालः ॥
नृपस्य जीवाभयदानडिण्डिमैर्महीतले नृत्यति कीर्तिनर्तकी । समं मनोभिस्तिमिकेकितित्तिरिस्तभोरणक्रोडमृगादिदेहिनाम् ॥
द्यूतासवादीनि नृणां निषेधाहिदैव सप्तव्यसनानि भूपः । दुष्कर्मतो दुर्गतिसम्भवानि परत्र तेषां त्वमितानि तानि ॥
पदे पदे भूमिभुजा निवेशितैर्जिनालयैः काञ्चनदण्डमण्डितैः । 10 निवारिता वेत्रधरीरिवोद्धृतैः स्फुरन्ति कुत्रापि न केऽप्युपद्रवाः ॥
-श्रीसोमप्रभाचार्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org