________________
७८
कुमारपालचरित्रसङ्ग्रहः भाव्यराज्याधिपत्वादि कलिभावेन दुर्मदम् । उपदिश्य नृपस्याग्रे प्रभवोऽनशनं व्यधुः ॥७३१॥ पद्मासनसमासीनलयैकाग्र्यवशेन्द्रियाः । सूरयो दशमद्वारा चक्रिरे प्राणनिर्गमम् ।।७३२।। संस्कारानन्तरं सूरेः पवित्रमिति भूपतिः । ववन्दे देहजं भस्म ततः सामन्तमण्डली ॥७३३॥ पौरामात्यादिवर्गश्च तथा मृत्स्नामपाहरत् । यथा तदास्पदं हेमगर्तेत्यद्यापि विश्रुतम् ॥७३४।।
प्रभुश्रीहेमसूरीणां शोकविक्लवमानसः । 10
विज्ञप्तः सचिवै राजा सगद्गदमदोऽवदत् ॥७३५।। पुण्याजितशुभप्राप्तीन्न शोचामि प्रभूनहम् । सप्ताङ्गमपि साम्राज्यमिदं मे त्वप्रयोजकम् ॥७३६।। तदेव खलु शोचामि राजपिण्डेन दूषितम् । यन्न लग्नं प्रभोरङ्गे मदीयमुदकाद्यपि ॥७३७॥ धर्मात्माऽपि स कष्टेन समारं स्मारं प्रभोर्गुणान् । षण्मासीमतिचक्राम च्यवनात इवामरः ।।७३८।। अथ प्रभूक्ते दिवसे समाप्तायुः समाधिना । कुमारपालभूपालः स्वर्लोकमधितस्थिवान् ॥७३९।। इति संक्षेपतः प्रोक्तं चरित्रं गुजरेशितः ।
कुमारपालप्रतिबोधशास्त्राद् ज्ञेयं विशेषतः ॥७४०॥ इति श्रीरुद्रपल्लीयगच्छालङ्कारहारश्रीसङ्घतिलकसूरिशिष्यश्रीसोमतिलकसूरिविरचितं
श्रीकुमारपालभूपालचरित्रं समाप्तं । [A आदर्शे-'सं. १५१२ वर्षे आषाढमासे कृष्णपक्षे नवम्यां लिलेख॥']
15
20
1. B संक्षेपेण । 2. B भूपालप्रतिबोधचरित्रं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org