________________
७७
10
कुमारपालदेवचरितम्।
पञ्चाशद्वर्षदेशीयो राजाऽष्टादशदेशभुक् । त्रिंशद्वर्षाणि राज्यं च 'भुक्त्वा पुण्यपरो मृतः ॥७१८।। तृतीयदेवलोकेऽसौ देवो भावी महद्धिकः ।। ततश्च्युत्वा विदेहेषूत्पद्य मोक्षं व्रजिष्यति ॥७१९।। श्रुत्वेति जाग्रदुत्कण्ठातरङ्गितभवान्तरः । कर्णाटदेशे भूपाल: प्रैषीच्चतुरमानुषान् ॥७२०।। प्रत्यक्षं सर्वमेवेदं ज्ञात्वा तैस्तैरूपक्रमैः । सर्वोत्तरं महीपालो जैन धर्मममन्यत ॥७२१॥ शङ्कादिदोषनिर्मुक्तं सम्यक्त्वं पालयन् दृढम् । एकच्छत्रं जैनधर्मं चक्रे केनाप्यभाणि यत् ।।७२२।। आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरादब्दान्येव चतुर्दश प्रसृमरां मारिं निवार्योजसा । कीर्तिस्तम्भनिभांश्चतुर्दशशतीसङ्ख्यान् विहारांस्तथा;
क्लृप्त्वा निर्मितवान् कुमारनृपति नो निजैनो व्ययम् ॥७२३॥ ६६३७. अथ कच्छपराजस्य भार्यायाः पुष्पभूपतेः ।
महासत्या लक्षराजजनन्याः किल शापतः ॥७२४॥ श्रीमूलराजवंशीयराजन्यानां तदाद्यपि । लूतिनामा महारोगः सङ्क्रामति सुदुर्धरः ॥७२५।। -युग्मम् ॥ कुमारपालभूभर्तुर्लुताव्याधिर्यदा पुनः । बाधामधात् तदा सूरिः प्रणिदध्यौ तदायुषि ॥७२६।। आत्मायुः सबलं वीक्ष्य तं च रोगवशायुषम् । अष्टाङ्गयोगाभ्यासेन तं दोषमुदमूलयत् ॥७२७।। चतुरशीतिवर्षायुर्मितैः श्रीहेमसूरिभिः । निजावसानं निश्चित्यारेभेऽन्त्याराधनाक्रिया ॥७२८।। तदर्थदुःखिताय श्रीभूपाय प्रभवोऽभ्यधुः । षण्मासीशेषमेवास्ति तवाप्यायुरतः परम् ।।७२९।। सन्तानाभावतो विद्यमान एव नराधिप ! । निजोत्तरक्रियां कुर्याः जागर्यां धर्मवर्त्मनि ॥७३०॥
15
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org