SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ७६ 25 नायकोऽपि तथा दृष्ट्वा प्रचुरानन्दतन्मनाः । भावनां भावयामास रङ्को निधिधनं यथा ॥७०५ ॥ Jain Education International धन्योऽहं यस्य पुष्पाणि व्यापृतानि जिनार्चने । अधन्यां रसनां मन्ये या न वेत्ति जिनस्तुतिम् ॥७०६ || इयता कृतकृत्योऽस्मि यत्पुष्पैरन्तरास्थितैः । सुतरां शुशुभे पूजा रत्नैर्मौक्तिकहारवत् ॥७०७॥৷ महाटव्यामिव सरः कानने जातिपुष्पवत् । इयत्कालं गतं जन्म वृथा मे धर्मजीविनः ॥ ७०८।। धन्यः सोऽवसरो भावी यत्राहमपि वासरे । स्वयं पूजां करिष्यामि स्वभुजोपार्जितैर्धनैः ॥ ७०९|| भावनां भावयन्नित्थं गुरुवन्दनकाम्यया । जगाम पौषधागारे श्रेष्ठिना सह सोऽप्यथ ॥७१०|| उपवासतपश्चके वन्दित्वा गुरुपादयोः । न न्ययुङ्ग क्वापि कार्ये श्रेष्ठी तमपि तद्दिने ॥७११ || प्रातर्भद्रकतां वीक्ष्य तस्मै पारणकाहनि । परमान्नं ददौ स्वेच्छं पुण्यं हि फलदं सदा ॥ ७१२ || दासोऽपि दध्यौ धर्मस्य प्रभावोऽयमहो ! महान् । अलब्धपूर्वं यल्लेभे पायसं गौरवं च तत् ॥७१३॥ अयमेव महाधर्मोऽनुचार्योऽतः परं मया । आकण्ठभोजनाज्जातमजीर्णं कुक्षिशूलयुक् ॥७१४॥ आराधनां कारयतः श्रेष्ठिनाऽसौ समाधिना । विपद्य गूर्जरात्रायां जातश्चौलुक्यसद्मनि ॥७१५॥ पुत्रस्त्रिभुवनपालदेवस्य परमार्हतः । कुमारपाल भूपालः सप्तव्यसनवारकः ॥७१६॥ सम्यक्त्वमाप्य श्रीहेमसूरिपादप्रसादतः । विधास्यति महीपीठं जिनचैत्यविभूषितम् ॥७१७|| 1. B oऽधमजीविनः । कुमारपालचरित्रसङ्ग्रहः For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy