________________
७४
कुमारपालचरित्रसङ्ग्रहः तदा तया चण्डिकयेव भाषितः, श्रीहेममूचे सुमतिस्त्वकम्पितः । स्याद् यद् यथा तच्च तथाऽस्तु निष्कृपं; प्रभोर्गणिपियति स्म तन्नृपम् ।।६८१।। नृपाज्ञया श्रीसुमतौ तु गूर्जरधरां, विहाय व्रजिते च कुङ्कणम् । नश्यत्सु चान्येष्वपि निश्रया प्रभोः;
कति स्थिताः साधुतया च विश्रुताः ॥६८२।। किञ्च- केकेय्युक्तिवशो व्यधाद् दशरथः पुत्रं प्रवासादरं,
पद्मावत्युदितश्च कौणिकनृपो दुर्थीर्युधं बन्धुभिः । रङ्कः कङ्कसिकार्थमङ्कगसुतानुन्नोऽकरोत् पू:क्षयं;
तद्वत् पाक्षिकमेकतां व्रजदपीत्यस्थाद् व्रतिन्या गिरा ॥ ६८३॥ यत:- कुमारपालभूपालवारके वतिनामभूत् ।
तां राकादुर्दशां मुक्त्वा पूजैवेति प्रसङ्गगीः ॥* ]॥६८४॥ 1588३५. कलिकालैकसर्वज्ञान् मन्वानस्तानथो नृपः ।
पप्रच्छ साग्रहं पूर्वभवं भवविरक्तधीः ॥६८५।। अनन्योपायतासाध्यं विमृशन्तस्तदाग्रहम् ।। सिद्धचक्रमहामन्त्रं सस्मरुविधिपूर्वकम् ॥६८६।। तदधिष्ठायकः शक्रसामानिकसुरोत्तमः ।। पूजाजपतपोहोमध्यानादिप्रीणितान्तरः ॥६८७।। कुमारपालभूपस्य कृतपुण्यस्य भाग्यतः ।। अमलस्वामिनामाऽसौ सर्वद्धिः प्रकटोऽभवत् ॥६८८॥ अभ्यर्थितस्तदा हेमसूरिभिर्गुणभूरिभिः । महाविदेहक्षेत्रेऽगान्न मोघप्रार्थनाः सुराः ॥६८९॥ गत्वा सीमन्धरस्वामिपादान्ते गूर्जरेशितुः । पूर्वजन्म तथा भाव्यसिद्धिप्रान्तमबूबुधत् ॥६९०।। ज्ञापयित्वा च श्रीहेमसूरये हर्षभूरये । यथागतं गतो देवो गुरवो नृपमूचिरे ॥६९१।।
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.