________________
७३
कुमारपालदेवचरितम् ।
कृत्रिमाडम्बरैरन्यैर्धर्मः प्रौढिमवाप्यते । कर्तुौँकयते प्रौढिं जैन एव परं विधिः ॥६६९।। श्राद्धादौ दत्तपिण्डेन प्रियन्ते पितरो यदि । तदाऽन्यविहितं कर्म भुज्यतामपरैरपि ॥६७०।। तथा च पुण्यलाभाय न केनापि प्रयत्यताम् । सर्वागमविरोधश्चानवस्था च सुदुर्धरा ।।६७१।। सिद्धान्तदुग्धधाराभिधौतभ्रान्तिमलो नृपः । श्रीसर्वज्ञमतेनैव स्वं कृतार्थममन्यत ॥६७२।। इत्यादि बहुशो देशान्तरीयकृतविभ्रमैः ।
अदूषितमनोवृत्ति सूरयश्चक्रिरे नृपम् ॥६७३।। ६६३४. [ द्विजाद्यैः प्रेरितः कैश्चिद् भूपः पप्रच्छ प्रभुम् ।
किं जैनेष्वप्यदो राकाभूतेष्टादिमतान्तरम् ॥६७४॥ ऊचे प्रभुर्न भेदोऽयं तोयं तोयधरस्य वै । तडागाद्यापगाभिन्नभूस्थं किञ्चित्तु भिद्यते ॥६७५।। तद्वद् राकाचतुर्दश्याश्रयेऽप्येको जिनः पतिः । जिनदीक्षेषु सर्वेषु मिथः पर्यायवन्दनम् ॥६७६।। सर्वे जैनर्षयो मान्या जिनाज्ञा चेत्यतो न भित् । राकाद्या भिच्च पाश्चात्या नैव चिन्त्या विपश्चिता ॥६७७|| इत्यालप्य विलुप्य भूपतिमनःकालुष्यमागात् प्रभुः, स्वस्थाने मुनिपुङ्गवांश्च सकलानाकार्य राकाङ्कितान् । मन्यध्वं मुनिनिर्मितां प्रथमतो यूयं प्रतिष्ठां ततो; राकापाक्षिकमागमोक्तविधितः कुर्मो वयं चेत्यवक् ॥६७८॥ प्रपद्य ते स्वीयमुपाश्रयं ययू राकाङ्कगच्छेषु मिलत्सु सत्वरम् । इतः स्थविर्यार्यकया सुमुख्यया सूरिर्बभाषे सुमतिः समौढ्यया ॥६७९।। श्राद्धप्रतिष्ठां विजहन्न लज्जसे सिद्धान्तगुर्वोरपलापपापकृत् ।। गुरुक्रमे चेत् किल कापि शिष्यिणी न्यवेक्ष्यत त्वध्रुवतामलप्स्यत।।६८०।।
25
** एतानि कोष्ठकगतानि सर्वाण्यपि पद्यानि नोपलभ्यन्ते B सञके आदर्श ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org