________________
७२
10
कुमारपालचरित्रसङ्ग्रहः श्रुत्वेति दृढसम्यक्त्वसुधानिर्भरधीरपि । तद्वचो विषवेगेन मोहमित्थमधारयत् ॥६५६।। स्वकर्मवशगा जीवाः स्वकृतं कर्म भुञ्जते । चराचरहितं जैनं वाक्यं चेति मतं मम ॥६५७।। पितृभ्यामुक्तमेवं च शृणोमि निजकर्णयोः । हितौ च मातापितरौ तदिदं किमु सूनृतम् ॥६५८॥ इत्याद्यमन्दसन्देदोलान्दोलितमानसः । यावत्तस्थौ हृदालीनलयो योगीव भूपतिः ॥६५९।। श्रीवाग्भटमहामात्यज्ञापिताः प्रभवस्तदा । तत्कालं कलिताकूतकलाकौशलशालिनः ॥६६०।। कृत्वा जिनार्चनां सद्यो गुरून्नन्तुमुपेयुषः । उपांशु दर्शयामास नृपतेरिन्द्रजालताम् ॥६६१॥ आविर्भूय त्रिभुवनपालः सुतमलीलपत् । धन्योऽस्मि कृतकृत्योऽस्मि वत्स ! यज्जैनधर्म्यसि ॥६६२॥ सुरकिन्नरनारीभिर्गीयमानं यशस्तव ।। श्रुत्वा सर्वाधिकं वत्स ! स्वात्मानमभिमन्महे ॥६६३।। उद्धृताः पूर्वजाः कृत्यैः कुलं चेदं पवित्रितम् । सत्पुत्र ! तव धर्मेण सुरपती रमामहे ॥६६४।। श्रीवाग्भटपुरे पार्श्वचैत्ये मन्नामनिर्मिते । नित्यं कृतार्थयन्नस्मि पूजाकृत्यैर्निजं जनुः ॥६६५।। तथैव माता वात्सल्यकुल्याभिस्तमसिञ्चत । प्रीणितात्मा नृपः स्मित्वा गुरूनाह सविस्मयम् ॥६६६।। किमिदं कौतुकं नाथ ! विनाथीकृतमानसम् । पुरापीदृक्षमेवाहमद्राक्षमिदमन्यथा ॥६६७।। सोल्लासं गुरवः प्राहुस्तथैवेदं यथा 'पुरा । ज्ञातव्या भ्रान्तिरेवेयं तत्त्वं त्वेकं जिनोदितम् ॥६६८।।
15
20
25
1 Boमलालयत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.