SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 10 कुमारपालदेवचरितम् । तदीये मण्डले जैन धर्ममार्ग प्रवर्तयन् । तिलपीडनयन्त्राणि मिथ्यात्वमिव भञ्जयन् ॥६४२॥ सर्वत्र स्थापयन् धर्मस्थितिं सह निजाज्ञया । श्रीमांश्चौलुक्यराजेन्द्रो गूर्जरात्रामुपागमत् ।।६४३।।-युग्मम् ६६३३. एकदा देवबोधाख्यो योगी कपिलदर्शनी । जैनीभूतं नृपं श्रुत्वा स्वकलादुर्मदाशयः ।।६४४।। चकोरहंससारङ्गाधिरूढैर्योगिभिर्वृतः । आगतः कदलीपत्राधिरूढो नृपपर्षदि ॥६४५॥ राजा सर्वोपधाशुद्धधर्मधौतमलोऽपि हि । स्फटिकोपलवत् किञ्चित् तत्कलारञ्जितोऽभवत् ॥६४६।। श्रीवाग्भटमहामात्यज्ञापिताः प्रभवोऽपि हि । योगशक्त्या परित्यज्य चतुरङ्गलभूमिकाम् ॥६४७।। विधाय पश्यतो राज्ञः स्वकायं तूलवल्लघुम् ।। विस्मयं दलयामासुः स्मयं वादिगिरामिव ॥६४८॥ नृपचित्तविमोहार्थं स एव पुनरन्यदा । प्रत्यक्षं मातापितरौ दर्शयामास विद्यया ॥६४९।। पिता जगाद वत्स ! त्वं पाखण्डैविप्रतारितः । कुलाचारमनाचारवचनैर्मुक्तवानसि ।।६५०॥ जैनश्राद्धतया श्राद्धपिण्डादि न ददासि यत् । तेन दिक्षु क्षुधाक्षामो भ्रमामि क्षमापतौ त्वयि ॥६५१॥ यन्मुक्तं तुच्छवाक्येन तिथिपर्वोत्सवादिकम् । न लेभेऽहमतस्तात ! प्रवेष्टुं सुरपर्षदि ॥६५२।। जाते त्वयि मया वत्स ! विहिता ये मनोरथाः । ते सर्वे विफलीभूता भूतावेशोऽस्ति किं नु ते ॥६५३।। दीनानना पुनर्माता ताम्यन्तीव तदाऽवदत् । वरं वन्ध्या वरं निन्दुर्वरं निःस्वसुता प्रसूः ॥६५४।। न पुनस्त्वादृशो वत्स ! सार्वभौमः सुतोत्तमः । यत्कृत्यैर्जायते माता हीनानामपि हास्यताम् ॥६५५।।-युग्मम् 15 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy