SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ कुमारपालदेवचरितम्। श्रुत्वेति युक्तोपन्यस्तं तद्वाक्यं लञ्जितो नृपः । आस्थानोत्थायमेकान्ते पाठवेलामचीक्लृपत् ।।५९६।। पञ्चाशद् वर्षदेश्योऽपि वर्षेणैकेन भूपतिः । वृत्ति-काव्यत्रयं कस्मादप्युपाध्यायतोऽपठत् ।।५९७|| नित्यं पैचुष्यवैदुष्यसामग्र्या पक्वधीनृपः । विद्वत्सु बिरुदं लेभे श्रीविचारचतुर्मुखः ॥५९८।। ६६३०. कदाचिदन्यदा विश्वेश्वरनामा महाकविः । श्रीसोमनाथमुद्दिश्य प्रतस्थे काशिदेशतः ॥५९९।। अणहिल्लपुरे प्राप्तो हेमसूरीन्द्रपर्षदि । ससामन्तनराधीशसेवितं वीक्ष्य तं जगौ ॥६००। 'पातु वो हेमगोपालः कम्बलं यष्टिमुद्वहन् ।' साभिप्रायं भणित्वेति बुधो यावद् विलम्बते ॥६०१।। नृपं निरीक्ष्य सक्रोधं प्रभूणां हीनवर्णनात् । तदिङ्गितज्ञो विज्ञो द्रागुत्तरार्धमुदाहरत् ॥६०२।। 'षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ।' भूपोऽपि हृषितस्तस्मै तदासनमदापयत् ॥६०३।। पाण्डित्यगोष्ठीमासूत्र्य प्रभुभिः सह पण्डितः । सुतरां मुमुदे राजमराल इव मानसे ॥६०४|| रामचन्द्रादिसाधूनां परीक्षार्थमथो बुधः । 'व्याषिद्धेति' समस्यायास्तुरीयं पादमाख्यत ॥६०५।। रामचन्द्रमुनिर्यावत् प्रकाशं वक्तुमैहत । उत्कल्लोलमनाम्भोधिः श्रीकपर्दी तदाऽवदत् ॥६०६।। नैतस्याः प्रसृतिद्वयेन सबले शक्येऽपि धातुं दृशौ, सर्वत्र प्रतिभाव्यते मुखशशिज्योत्स्नावितानैरियम् । इत्थं मध्यगता सखीभिरभितो दृग्मीलनाकेलिषु; व्याषिद्धा नयने मुखं च रुदती खे गर्हते कन्यका ॥६०७॥ 1. B न्यस्ततद्वाक्यं । 2. B पद० । 3. B सर्वत्रापि च लक्ष्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy