________________
5
६६
10
15
20
25
Jain Education International
कुमारपालचरित्रसङ्ग्रहः
इत्यादिदीनवचनामप्येनां रोषदारुणाः । निगृह्य सूरयोऽमात्यं मोचयामासुराशु तम् ॥५८४॥ प्रातः श्रीसुव्रतस्वामिप्रणिपातसमाहिताः । आसेदिवांसः प्रासादं तुष्टुवुर्जिननायकम् ॥५८५ ॥ संसारार्णवसेतवः शिवपथप्रस्थानदीपाङ्कुरा, विश्वालम्बनयष्टयः परमतव्यामोहकेतूद्गमाः । किञ्चास्माकं मनोमतङ्गजदृढालानैकलीलाजुषस्त्रायन्तां नखरश्मयश्चरणयोः श्रीसुव्रतस्वामिनः ॥५८६ ॥ श्रीमदाम्रभटस्येत्थमुपकृत्य महर्षयः । ययुर्यथागतं लोकहिताशेषप्रवृत्तयः ॥५८७|| वागभटाम्रभटामात्यौ चक्राते परमार्हतौ । लाट- -कुङ्कणदेशेषु विहारालङ्कृतां भुवम् ॥५८८|| §§२९. अथान्यस्मिन्नवसरे श्रीकुमारनरेश्वरः ।
कामन्दकी महानीतिशास्त्रं शुश्राव कोविदात् ॥५८९ ॥ 'पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥५९०॥ ' श्रुत्वेति प्राह भूभर्तुरुपम्या तर्हि नीरदः । '
4
चक्रुः सामाजिकाः सर्वे न्युञ्छनानीयता प्रभोः ॥५९१ ॥ विलोक्यावाङ्मुखं राजा तदानीं तु कपर्दिनम् । न व्यर्थं चेष्टते ह्येष इत्येकान्ते तमब्रवीत् ॥५९२ || स्वामिन् ! ‘उपम्या' शब्दोऽयं सर्वशास्त्रेषु निन्दितः । छन्दानुवर्तिनस्त्वेतेऽभिनन्दन्ति वृथा प्रभुम् ||५९३|| अराजकं वरं स्वामिन् ! न तु मूर्खो महीपतिः । अकीर्तिस्ते च विद्वेषिण्डलेषु प्रसर्पति ॥ ५९४ ॥ उपमेयम्, उपमानम्, औपम्यम्, उपमा तथा । तुल्यार्थवाचकाः शब्दाः शुद्धा व्याकरणेष्वमी ॥५९५॥
For Private & Personal Use Only
www.jainelibrary.org