________________
कुमारपालदेवचरितम् ।
सस्नेहमिति राज्ञोक्ते तद्गुणोद्रेकरञ्जिताः । श्रीहेमगुरवः प्राहुविस्मृतान्यस्तुतिव्रताः ॥५७१।। किं कृतेन यत्र त्वं यत्र त्वं किमसौ कलिः । कलौ चेद् भवतो जन्म कलिरस्तु कृतेन किम् ॥५७२॥ अनुमोद्य मनोमोदमेदस्विमनसावुभौ । क्षमापती गतौ सङ्घसहितौ तौ यथागतम् ॥५७३॥ अथ तत्रगतानां श्रीप्रभूणां स्वल्पवासरैः । गतः प्रान्तदशामाभ्रभटोऽचिन्तितबाधया ॥५७४।। ज्ञात्वा विज्ञप्तितस्तादृग् स्वरूपं प्रभवोऽपि हि । बहुविघ्नं हि कल्याणं कार्मणध्यानलीलया ॥५७५।। प्रतिष्ठावसरे चैत्यशिखरे नृत्यतस्तदा । मिथ्यादृशां देवतानां दोषं द्रुतमबूबुधन् ॥५७६।। साधारः प्रयत्नेन रक्षणीयो यथातथा । दयालुतैव च परं जिनशासनजीवितम् ॥५७७।। इति व्योमाध्वनोत्पत्य यशश्चन्द्रेण संयुताः । भृगुकच्छपरिसरं सम्प्राप्ताः प्रभवः क्षणात् ॥५७८।। मूलं मिथ्याक्सुरीणां प्रभवः सैन्धवां सुरीम् । अनुनेतुं तस्थिवांसः कायोत्सर्गेण तत्क्षणम् ॥५७९।। दर्पण सैन्धवा देवी सावहेलं मुखाम्बुजात् । आकृष्य दर्शयामास स्वजिह्वां हेमसूरये ।।५८०॥ सरोषमथ सूरीन्द्रः प्रक्षिप्योदूखले कणान् । ताडयामास मुशलप्रहारैर्गणिपाणिना ॥५८१।। निबिडं पीडिता देवी गृह्णन्ती दशनाङ्गुलीः । ब्रुवाणा रक्ष रक्षेति पपात प्रभुपादयोः ॥५८२।। मुञ्चामात्यमिति प्रोक्ते नाहमेकैव दोषभाक् । ग्रस्तोऽयं सर्वदेवीभिः खण्डशः पूर्वमेव च ॥५८३।।
1.B कर्मेति । 2. B व्रत० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org