________________
10
कुमारपालचरित्रसङ्ग्रहः नर्मदादिमहातीर्थव्यन्तरोपज्ञबाधया । शिलान्यासे कृते गर्ता मिमेलामूलचूलिकम् ॥५५७।। अकस्मान्मिलिते गर्ने व्यापृता भूमिशोधने । कलौ गुणा इव सतां छादिताः कर्मकारिणः ॥५५८॥ पापार्जनमिदं पुण्यच्छलेनेति दयापरः । सपुत्रभार्यो मन्त्रीशस्तत्र झम्पां स्वयं ददौ ॥५५९।। सहसाऽतिशयात् तस्य सन्तुष्टा नर्मदासुरी । निराचकार प्रत्यूहं दीपिकेव तमोभरम् ॥५६०॥ वस्त्राभरणसन्मानैः सन्तोष्य स्थपतीनथ । शैलानुवादं प्रासादं कलशान्तमचीकरत् ॥५६१।। सङ्घ सनृपति श्रीमद्धेमसूरिपुरस्सरम् । श्रीपत्तनादुपानीयार्हच्चैत्यं प्रत्यतिष्ठिपत् ॥५६२॥ सङ्घस्यातुच्छवात्सल्यं कृत्वा स्वीयं च मन्दिरम् । अर्थिभिर्मुषितं चक्रे ध्वजारोपाय सञ्चरन् ॥५६३।। सुव्रतस्वामिनश्चैत्ये हर्षोत्कर्षेण धीसखः । ध्वजं महाध्वजोपेतं दत्त्वा जग्राहारात्रिकं करे ॥५६४।। आरात्रिकावताराय भूभुजाऽभ्यथितः स्वयम् । भट्टाय तुरगं दत्त्वा जग्राहारात्रिकं करे ॥५६५।। श्रीमत्कुमारपालेन ललाटे तिलके कृते । द्वासप्तत्या नृपैः क्लृप्तचामरच्छत्रविस्तरः ॥५६६॥ स्थिरीकृतारात्रिकोऽसौ तदैवागतबन्दिने । स्वबाहोः कङ्कणं हैमं ददौ राजपितामहः ॥५६७॥ बलात्कारेण बाहुभ्यां धृत्वा कुमरभूपतिः । नीराजना-माङ्गलिक्यप्रदीपं निरपीपदत् ॥५६८॥ श्रीसुव्रतजिनं नत्वा गुरूंश्च गुरुभक्तितः । शीघ्रनीराजनाकर्महेतु पप्रच्छ भूपतिम् ॥५६९।। द्यूतकारो यथा द्यूते शिरसाऽपि पणायते । अतः परं शिरोदाता तथार्थिभ्यो भवानपि ॥५७०।।
15
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org