________________
कुमारपालदेवचरितम्।
शत्रुञ्जयोपत्यकायां सामग्रीपूरणेक्षणी । श्रीवाग्भटपुरमिति नवं पुरमवासयत् ।।५४४।। दृढे दृढेतरे कर्मस्थायेऽपि विहिते सति । स्फुटिते बहुराश्चैत्ये मन्त्री पप्रच्छ शिल्पिनः ।।५४५।। प्रासादे सभ्रमे वायुः प्रविष्टो न निरैति यत् । तेन स्फुटति देवायं पक्ववालुङ्कपिण्डवत् ।।५४६।। भ्रमहीने पुनश्चैत्ये दूषणं निरपत्यता । श्रुत्वेति तत्त्वदृग् मन्त्री मन्त्रयामास चेतसा ॥५४७।। धर्मसन्तानमेवास्तु गत्वरेण कुलेन किम् । श्रीमतां भरतादीनां पङ्क्तौ भवतु नाम मे ॥५४८।। दीर्घदृष्ट्या विचार्येति वाग्भटो निजवाग्भटः । भ्रमभित्त्योरन्तरालं शिलापूरमपूपुरत् ॥५४९।। वर्षत्रयेण सञ्जाते विहारे कलशावधौ । श्रीपत्तनादुपानीय श्रीमत्सङ्घ चतुविधम् ।।५५०।। श्रीविक्रमनपाद्वर्षे रुद्रार्क(१२११)प्रमितैर्गतैः ।। प्रतिष्ठाप्य ध्वजारोपं कारयामास मन्त्रिराट् ।।५५१।। श्रीशैलमयबिम्बस्य मूर्त यश इव स्वकम् । दधे परिकरं तत्र मम्माणीयखनीभवम् ॥५५२।। श्रीवाग्भटपुरे राजपितुर्नाम्ना विधापिते । प्रासादे स्थापयामास पार्श्वनाथं सविस्तरम् ।।५५३।। चतुर्विशतिमारामांस्तीर्थपूजाकृते नृपः । ग्रासवस्त्रादिकं चान्यद् देवलोकाय दत्तवान् ॥५५४॥ सप्तषष्टियतामेकां कोटिं वाग्भटमन्त्रिराट् । ।
तीर्थोद्धारे व्ययीचक्रे प्रतिष्ठायां पुनः पृथक् ॥५५५।। ६६२८. अथाऽऽम्रभटनामा श्रीभृगुकच्छपुरावनौ ।
__शकुनीचैत्यमुद्धर्तुमारेभे श्रेयसे पितुः ।।५५६॥
1. B कलशावधि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org