SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६२ 1. A ०र्चनावधिम् । Jain Education International पर्यन्ताराधनाकामी कृत्वा देवार्चनाविधिम् । मन्त्री समाधिभङ्गेन त्याजयामास तां ततः ॥५३१|| मुनेरभावतो वण्ठं तद्वेषमुपनीय ते । तस्मै निवेदयामासुस्तन्मुनीभावतः स च ॥ ५३२॥ ललाटं घट्टयंस्तस्य पादयोरादिदेववत् । चक्रे तत्साक्षिकीं मन्त्र्याराधनां धिषणाधनः ॥५३३॥ मुदिते मन्त्रिणि प्राप्ते परलोकपथीनताम् । वण्ठः प्रधानैरुक्तोऽपि यतिवेषं न चामुचत् ॥५३४॥ चन्दनेनेव निम्बद्रुर्मन्त्रिवासनया परम् । वासितः पालयामास चारित्रं विमलाचले ॥ ५३५ ॥ मन्त्रिणोऽभिग्रहग्राही श्रीकरीधारकः स च । व्यावृत्य शेषकार्यार्थी श्रीपत्तनमुपेयिवान् ॥५३६॥ राजकार्याकुलत्वेन प्रस्तावाप्राप्तितः स तु । न चाविष्कृतवान् स्वाभिप्रायं सचिवपुत्रयोः ||५३७|| चिरंतपः कृशीभूतः पृष्टो देशालिकोऽन्यदा । वाग्भटा -ऽऽम्रभटयोस्तत्तीर्थोद्धारऋणं जगौ ॥ ५३८ ॥ गृहीताभिग्रहौ तौ तु तीर्थोद्धाराय तत्क्षणम् । प्रेषयामासतुः सूत्रधारान् शत्रुञ्जये गिरौ || ५३९॥ वर्षद्वयेन निष्पन्ने प्रासादे प्रेषितः पुमान् । वर्द्धापनिकया लेभे जिह्वां हेममयीं ततः ॥५४०॥ क्षणेन पुनरागत्य द्वितीयो मानवोऽवदत् । प्रासादः स्फुटितो मन्त्रिन् ! इति वज्रोपमां गिरम् ॥५४१ ॥ ततश्च वाग्भटो धर्मसुभटः स्थिरकर्मधीः । आपृच्छय कुमरक्ष्मापं दृढाभिग्रहाग्रहः ॥ ५४२॥ कपर्दिनि महामात्ये निजमुद्रां नियोज्य च । चतु:सहस्रवाहानां प्रतस्थे शकुनैः शुभैः || ५४३ ॥ कुमारपालचरित्रसङ्ग्रहः For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy