SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ कुमारपालदेवचरितम् । काष्ठप्रासादविवरे तां ज्वलन्तीं यदाऽक्षिपत् । मन्त्री समाधिभङ्गेन त्याजयामास तां ततः ॥५१८॥ चित्तेऽथ तर्कयामास मन्त्री मतिमतां वरः । प्रासादेऽस्मिन् काष्ठमये नैत्योऽयं सङ्कटये महान् ॥५१९॥ ज्वलन्तीं यद्यसौ वर्त्तिमित्थमादाय कर्हिचित् । रहः सञ्चारयेत् क्वापि दारुणं दारुणि क्षणम् ॥५२०॥ मिथः संसज्य काष्ठौघैः प्रासादोऽयं महानपि । तदा भज्येत निर्भाग्यवतामिव मनोरथः ॥ ५२१ ॥ ततः कारयितव्योऽसौ प्रादादोऽश्ममयो मया । चिरं च भविनः सन्तु वर्धमाना मनोरथाः ॥ ५२२|| ब्रह्मचर्यैकभक्तत्वप्रमुखानथ मन्त्रिराट् । जीर्णोद्धाराय जग्राहभिग्रहाज्जिनपादयोः ||५२३|| बलीयः सर्वकार्येभ्यः स्वामिकार्यं नियोगिनाम् । विमृशन्निति मन्त्रीशः स्कन्धावारमुपेयिवान् ॥५२४|| अभ्यमित्रीणतां भेजे भेजे नृपबलैस्ततः । श्रीमानुदयनो योद्धुं स्वयमुत्तस्थिवानथ ॥ ५२५ ॥ अरातिप्रेरितापारप्रहारभरजर्ज्जरः । Jain Education International नीतः स्वशिबिरे मन्त्री वण्ठैरुत्पाद्य यत्नतः ॥ ५२६॥ स्वामिकार्ये गतैः प्राणैर्धन्यं मन्योऽपि धीसखः । शुश्रुवे नेत्रयोरश्रु वारि निर्झरणादिव ॥५२७|| किं किञ्चिदन्त: शल्यं ते मन्त्रिन् ! दोदूयते हृदि । पृष्ठे समीपगैरित्थं सोऽप्युवाच सगद्गदम् ॥५२८।। श्रीशत्रुञ्जयतीर्थे च चैत्ये शकुनिकाभिधे । जीर्णोद्धारचिकीर्षोर्मे देवर्णमवशिष्यते ॥ ५२९॥ तैरूचे नन्दनौ मन्त्रिन् ! वाग्भटा ऽऽम्रभटौ तव । गृहीताभिग्रहौ तीर्थद्वैयीमुद्धरिष्यतः ॥५३० ॥ 1. B वर्धमान० । 2. B नतैः । 3. B द्वितयी० । For Private & Personal Use Only ६१ 5 10 15 20 25 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy