________________
कुमारपालदेवचरितम् ।
तदा चौलुक्यराजेन्द्रः प्रभूनाचष्ट सादरम् । लघुदानेन भगवन्नत्र का वश्चमत्कृतिः ॥४९२॥ बभाषे प्रभुभिर्भूप ! शृणु यच्चित्रकारणम् । व्ययन्ति लक्षमेवेह ये कोटीन्द्राः स्वभावतः ॥४९३ ॥ लक्षाधिपतयश्चात्र सहस्राणि वितेनिरे । महातीर्थे पुनन्ति स्वं सहस्त्रेशाः शतैः पुनः ॥ ४९४॥ राजन् ! पोट्टलिकश्चायं दारिद्यद्रुमकाननम् । ददावनर्घ्यफलदं सर्वस्वं द्रम्मपञ्चकम् ||४९५॥ ययाचे तमथो भूपः पुण्यं लक्षादिदानतः । स च सन्तोषतो नैच्छद् विस्मितो भूपतिस्ततः ॥ ४९६ || बहुप्रकारं श्लाघित्वा मन्वानस्तुल्यधर्मिणम् । कृतपुण्यं पोट्टलिकं विससर्ज कृतादरम् ॥ ४९७॥ कृत्वा प्रभावनामत्यद्भुतां शत्रुञ्जये गिरौ । ययौ रैवतके राजा राजमानो गुरुश्रिया ॥४९८|| तत्र चाकस्मिके छत्रशिलाकम्पे समुत्थिते । पौराणविदुराः सूरिप्रवरा नृपतिं जगुः ॥४९९॥ इयं छत्रशिला राजन् ! समकं समुपेतयोः । द्वयोः पुण्यवतोः शीर्षे किलाकस्मात् पतिष्यति ||५००|| इत्यत्र सम्प्रदायोऽस्ति तदावां पुण्यवत्तमौ । यदीदं सत्यतामेति दुर्यशो दुर्धरं तदा ॥ ५०१|| तत् त्वमेव महीपाल ! नमस्कुरु जिनाधिपम् । भावपूजावदस्माकं नतिरप्यस्तु भावतः ||५०२|| नृपेण पुनरभ्यर्थ्य ससङ्घाः प्रभवस्तदा । छत्रशैलेयमार्गेण प्रहिता हितभक्तिना ||५०३ ॥ स्नपनावसरे स्थित्वा पर्वताधः स्वयं नृपः । आशैवेयजिनं श्रेण्या स्नात्रकर्तृनधारयत् ॥५०४॥
1. B भवान्नत्र । 2. A पौराणि० ।
Jain Education International
For Private & Personal Use Only
५९
5
10
15
20
25
www.jainelibrary.org