________________
10
कुमारपालचरित्रसङ्ग्रहः अकुतोभयताहूतपुरुहूतसमृद्धिभिः । किल सङ्घमिषात् स्वर्गो भूमण्डलमवातरत् ॥४७९।। द्विधोपदिश्यमानाध्वा प्रभुश्रीहेमसूरिभिः । धन्धुक्कनगरं प्राप भूपः पापव्यपोहधीः ।।४८०।। स्वयं विधापिते तत्र प्रभोर्जन्मगृहावनौ । सप्तदशहस्तमाने विहारे झोलिकाभिधे ॥४८१।। नृपः प्रभावनां कुर्वन् संयमी स्वेन्द्रियानिव । उपसर्गकृतो विप्रांश्चक्रे विषयताडितान् ॥४८२॥ -युग्मम् ॥ दृष्टवर्धापनापूर्वं प्राप्तः शत्रुञ्जये गिरौ । दृष्टे नाभेयबिम्बे तु योगीवानन्दमुद्वहन् ॥४८३॥ दुःखक्षयश्च मे कर्मक्षयश्च भवतादिना । दण्डकप्रणिधानेन विभालेन भुवं स्पृशन् ॥४८४।। यावदास्ते नृपस्तत्र वास्तवस्तुतिसंस्तवी । समयज्ञस्तदोवाच चारणो वाक्यचञ्चुरः ॥४८५।। -विशेषकम् ॥ इक्कह फूलह माटि देइ जु नरसुरसिवसुहं । तिणिस्यूं केही साटि कटरे ! भोलिम जिणवरहं ॥४८६॥ श्रुत्वेति भूयो भूमीन्द्रः पाठयामास चारणम् ।
ददौ नवसहस्राणि नवकृत्व उदीरिते ।।४८७।। ६६२६. देवकोशप्रभृत्यर्थमेकदा रङ्गमण्डपे ।
अन्तराले धृतं स्थालं ससङ्घन महीभुजा ।।४८८॥ हारकेयूरदीनारमुद्रिकाकुण्डलादिभिः । भविकैर्भावनासारं क्षिप्यमाणैर्विभूषणैः ॥४८९।। कश्चिदाजन्मदारिद्री भावनामनास्तदा । जीर्णचेल: पोट्टलिकश्चिक्षेप द्रम्मपञ्चकम् ।।४९०॥ तद्विलोक्य प्रसन्नास्याः प्रभु श्रीहेमसूरयः । मस्तकं धूनयामासुः पूरिता इव तद्गुणैः ॥४९१।।
15
.
20
25
1. B भवतादिति । 2. B त्रिभालेन । 3. B सहइ । 4. B सउं। 5. B ०वरह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org