________________
५७
10
10
कुमारपालदेवचरितम् ।
कुमारपालभूपालो धन्यम्मन्यमनोरथः । यावत् समग्रसामग्रीमव्यग्रमनसाऽकरोत् ।।४६६।। तावद्देशान्तरायातं चरयुग्मं व्यजिज्ञपत् । श्रीकर्णस्त्वामुदेतीति नृपो डाहलदेशराट् ॥४६७।। आकर्ण्य कर्णशूलाभमिति वाक्यमिलापतिः । स्वेददन्तुरभालो द्राक् मन्त्रिवाग्भटमभ्यघात् ॥४६८।। प्राप्तायां यदि सामग्र्यां धर्मं कर्तुं न चाप्नुमः । निष्पन्नायां रसवत्यां तदिदं मुखवीक्षणम् ॥४६९।। शुशोच गुरुपादाग्रे स्वमधन्यतमं नृपः । स्वामिन् ! रङ्कस्य जीर्येत किं भुक्तिश्चक्रवर्तिनः ॥४७०।। सूरीन्द्रा अपि तत्कालमाकलय्य लवादिकम् । आदिक्षन् द्वादशे यामे निवृत्तिस्ते भविष्यति ॥४७१।। किर्तव्यतया मूढो यावदास्ते नराधिपः । तावन्निर्णीतवेलायां चरयुग्ममुपागमत् ॥४७२।। *दिवङ्गतश्च श्रीकर्ण इति सद्यो निवेदिते । नृपस्ताम्बूलमृत्सृज्य कथमित्यनुयुक्तवान् ॥४७३।। निशि प्रयाणं कुर्वाणः श्रीकर्णः कुम्भिपृष्ठभाक् । जितकाशिमदावेशान्निद्रामुद्रितलोचनः ॥४७४।। कण्ठावलम्बिसौवर्णशृङ्खलेन गरीयसा । न्यग्रोधपादलग्नेनोल्लम्बितः पञ्चतामगात् ॥४७५।। कलौ त्वमेव सर्वज्ञः स्तुवन्निति पुनः पुनः । अक्षेपेण महीपालो जिनयात्रामसूत्रयत् ॥४७६।। दुकूलाच्छादितक्षोणीतललीलागतिक्रमः । नृपः श्रीहेमसूरीणां दत्तहस्तावलम्बनः ।।४७७।। पदे पदे महादानसत्रागारमहोत्सवैः । धर्मैकच्छत्रतां चक्रे शक्रः कल्याणकेष्विव ॥४७८॥ -युग्मम् ॥
15
25
★ नोपलभ्यते एष श्लोक: A आदर्श ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org