SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 10 कुमारपालचरित्रसङ्ग्रहः इत्यादिश्य झटित्येव विहारं सूरयो व्यधुः । तत्त्वकार्ये न मुह्यन्ति यतो निबिडबुद्धयः ।।४५३॥ ६६२४. अन्यदा श्रीवीतभयपत्तनस्थलगर्भिताम् । ब्रह्मर्षिणा केवलिना कपिलेन प्रतिष्ठिताम् ॥४५४॥ विद्युन्मालिप्रतिमायाः प्रतिच्छन्देन मञ्जुना ।। चण्डप्रद्योतभूपेन कारितां चेटिकाकृते ॥४५५।। सप्तहस्तोच्छ्रितां जात्यचान्दनी कुमरो नृपः । देवाधिदेवप्रतिमां शुश्राव सुगुरोर्मुखात् ॥४५६।। -त्रिभिर्विशेषकम् ।। गुरोर्वचनतः कार्यसिद्धि निश्चित्य भूपतिः । तत्कालप्रहितानेकसामन्तैर्भक्तियुक्तितः ॥४५७।। खानयित्वा वीतभयस्थलमुत्तमभाग्यतः । देवाधिदेवप्रतिमामव्यङ्गां निरकाशयत् ॥४५८|| -युग्मम् ॥ नरेन्द्रादेशतः सर्वग्रामाकरपुरादिषु । रथयात्रास्विव स्वैरं जायन्ते स्म महोत्सवाः ।।४५९।। भाविकैः क्रियमाणेषु पुरा सङ्गीतकादिषु । प्रभावनामयं विश्वं सृजन्ती प्रतिमाऽचलत् ॥४६०॥ ससामन्तेन भूपेन कृतानुकृतमोत्सवा (?) । रथाधिरूढा प्रतिमा प्रापाणहिल्लपत्तनम् ॥४६१।। स्वसौधासन्नभूपीठे प्रासादे स्फटिके नृपः । निवेश्य पूजयामास त्रिकालं कलिकीलकः ॥४६२॥ 88२५. अथ श्रीकुमरक्ष्मापः स्वजनुफललिप्सया । शत्रुञ्जयोज्जयन्तादितीर्थयात्रां प्रचक्रमे ॥४६३।। श्रीहेमचन्द्रसूरीन्द्रैः श्रीकुमारनरेशितुः । सङ्घाधिपत्यतिलकं विदधे महतो महात् ॥४६४।। देवालयस्य प्रस्थानमुहूर्ते स्थापिते सति । मिमिलुः परितः सङ्घा धर्मा इव चतुर्विधाः ।।४६५।। 15 ___20 25 1. C समानं तेन । 2. A कलिकीलनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy