________________
५५
कुमारपालदेवचरितम् ।
नृपतिप्रमुखानेकश्रावकैः सहितः प्रभुः । विदधे द्वादशावर्तवन्दनां विनयान्विताम् ॥४४०॥ * तस्मिन्नवसरे श्राद्धः श्रीकपद्यपि मन्त्रिराट् । उत्तरासङ्गतो भूमि प्रमाादत्त वन्दनाम् ॥४४१।। ★ अदृष्टपूर्व आचार: क इत्युक्ते महीभुजा ।। सिद्धान्तविधिरेषोऽपीत्याह श्रीगुरुरुत्तरम् ॥४४२।। श्रुतश्रौतोपदेशौ तौ गुरुभिः सूरि-भूपती । सङ्घकार्यं द्रुतं पृष्टौ न श्लथाः क्वापि धीधनाः ॥४४३।। विसृज्य तावपि क्षिप्रं सभां जवनिकान्तरे । ययाचतुः स्वर्णसिद्धि निपत्य गुरुपादयोः ॥४४४।। श्रीहेमसूरयः प्राहुर्भगवन् ! शैशवे मम । काष्ठभारिकतो वल्लीरसबिन्दुरुपाददे ॥४४५।। तेनाभ्यक्तं ताम्रखण्डं संयोगाज्जातवेदसः । सुवर्णं तत्क्षणाज्जातं सिद्धनिष्ठीवनादिव ॥४४६।। वल्लेरादिश्यतां तस्या नामसङ्केतनादिकम् । करोतु क्षितिपः क्षिप्रं धरणीमनृणामयम् ॥४४७।। कुपिता गुरवः प्राहुः पापापसर दूरतः । न योग्य इत्यपास्याचं पादलग्नमिवोरगम् ॥४४८।। अग्रे मुद्गरसप्रायविद्यया त्वमजीर्णभाक् । मन्दाग्नेर्मोदकां विद्यां कथमेतां ददामि ते ॥४४९।। शिष्यमाग्रहतस्तस्मादपथ्यादिव रोगिणम् । निवार्य सूरयो भूरिवैराग्या नृपमभ्यधुः ॥४५०।। जिनचैत्यालङ्कृतक्ष्मा-मारिनिर्धाटनादिभिः । सिद्धे लोकद्वये राजन् ! किमाधिक्यमभीप्ससि ॥४५१।। किञ्च ते जगदानृण्यकारिण्यै हेमसिद्धये । न भाग्यमस्ति तेनात्र युक्ता भावानुमोदना ॥४५२।।
★ एतत्तारकाङ्कितं श्लोकद्वयं नोपलभ्यते B आदर्श ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org