SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरित्रसङ्ग्रहः ६६२२. अन्यदा मागधौ कौचित् स्पर्धमानौ स्वविद्यया । सुराष्ट्रादेशतः प्राप्तौ श्रीपत्तनमहापुरम् ॥४२७।। प्रभुभिः श्लाध्यते यो हि स एव विभुरावयोः । मार्गोपक्षयदाताऽन्यो यस्तु हारयति ध्रुवम् ॥४२८॥ प्राप्त एकस्तयोर्मध्ये देशनावसरे प्रभोः । लक्ष्मीवन्तः पण्डिताश्च दृष्ट्वा स्पष्टमुदाहरत् ॥४२९।। लच्छि वाणि मुहकाणि ए पड़ भागी मुहमरउं । हेमसूरिअत्थाणि जे ईसर ते पंडिया ॥४३०॥ द्वितीयो भूपतेश्चैत्ये विधायारात्रिकक्षणम् । नमस्यतः पृष्ठहस्ते दत्ते प्रभुभिरब्रवीत् ॥४३१॥ हेम तुहाला कर मरउं२ जेहं अच्चब्भूय रिद्धि । जे चापं हेठा मुहा ताहं ऊपहरी सिद्धि ॥४३२॥ अनुच्छिष्टेन भूपालो वचसा तस्य रञ्जितः । भूयोऽपि पाठयामास त्रिरुक्ते मागधोऽभणत् ॥४३३।। पठिते पठिते लक्षं किं दास्यति नृपस्ततः । लक्षत्रयं त्रिरुक्तत्वात् स तस्मै तत्क्षणाददात् ॥४३४|| समये बहुपाठोऽपि श्रेयानिति स चारणः । सर्वार्थसाधकं मौनमिति व्यर्थममन्यत ।।४३५।। ६६२३. अन्यदा जगदानृण्यचिकीर्षाकौतुकी नृपः । प्रभुं विज्ञापयामास सद्यः सौवर्णसिद्धये ॥४३६।। ततः श्रीदेवचन्द्राह्वान् सुगुरून् प्रभवोऽपि हि । श्रीसङ्घ-कुमरक्ष्मापविज्ञप्तिभ्यामजूहवन् ॥४३७।। तेऽपि तीव्रव्रताः किञ्चित् सङ्घकार्यमिति द्रुतम् । यथाविधि विहारेण महात्मानः प्रतस्थिरे ॥४३८॥ प्रवेशोत्सवसामग्री भूपो यावत् प्रचक्रमे । सूरयः पौषधागारं शीघ्रं तावत् समाययुः ।।४३९।। 15 20 25 1 B प्राप्तश्चैक० । B आदर्श -१. तुहारा. २. मरूं. ३. जह. ४. चंपइ हिट्ठा. ५. ताह. | 2. A दास्यसि नृपतिस्ततः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy