________________
___10
कुमारपालदेवचरितम् ।
इदानीमभ्युद्यन्निजचरणनिर्लोठितकले जलक्लिन्नैरन्नैर्मुनितिलक ! वृत्तिर्भवतु नः ॥४१६॥ श्रुत्वा काष्ठामिमां तस्य निजधर्मानुरोधिनीम् ।
प्रभुसङ्केततो राज्ञा पुनः स्वपदभाक् कृतः ॥४१७।। ६६२१. राज्ये श्रीसिद्धभूभर्तुर्वामराशिद्विजः पुरा ।
पाण्डित्यस्पर्धया तत्र कासी(शी )तः समुपेयिवान् ॥४१८|| असहिष्णुः प्रतिष्ठायाः प्रभूणां जातिवैरतः । प्रत्यक्षं सोऽन्यदाऽवोचत् भुक्तोद्गारसमं वचः ॥४१९।। यूकालक्षशतावलीवलवलल्लोलोल्ललत्कम्बलो, दन्तानां मलमण्डलीपरिचयादुर्गन्धरुद्धाननः । नासावंशनिरोधनाद् गिणगिणत्पाठप्रतिष्ठाविधिः; सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ॥४२०॥ श्रुत्वाप्यानन्दतो माद्यच्चित्तैः प्रभुभिरौच्यत । पूर्वं विशेषणमिति किं नाधीतं धियांनिधे ! ॥४२१॥ अत इत्थं प्रयोक्तव्यं सोऽयं सेवडहेमडः । इति वैदुष्यकुन्ताग्रनुन्नो न्यूनमनाः कृतः ॥४२२॥ कुमारपालभूपालराज्ये शस्त्रवधो न हि । इति सोऽपि पदभ्रष्टो वर्तते कणभिक्षया ॥४२३।। अन्यदाऽऽबालभूपालं योगशास्त्रं पदे पदे । पठ्यमानं समाकर्ण्य सकर्णः स्पष्टमब्रवीत् ॥४२४।। आतङ्ककारणमकारणदारुणानां, वक्रेण गालिगरलं निरगालि येषाम् । तेषां जटाधरफटाधरमण्डलानां; श्रीयोगशास्त्रवचनामृतमुज्जिहीते ॥४२५॥ श्रुत्वेत्यमृतसंवादि वचः शान्तान्तरोष्मभिः । प्रभुभिद्विगुणा वृत्तिः पुनस्तस्मै प्रसादिता ॥४२६।।
15
25
1. A राज्ञः । 2. A भक्तोद्गार० । 3. B चलचल० । 4. B मेदस्विचितैः । 5. B राख्यत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org