________________
कुमारपालचरित्रसङ्ग्रहः अमारिघोषणापञ्चकुलेनानीय पत्तने । भूभुजे सोऽर्पितस्तेन प्राप्यादेशं प्रभोरिति ॥४०५।। सर्वस्वेन तदीयेन तद्दण्डपदयुक्तितः । यूकाविहार इत्येवं कारितं कीर्तनं नवम् ॥४०६॥ -युग्मम् ॥ स्तम्भतीर्थे यत्र चैत्ये प्रभोर्दीक्षाक्षणोऽभवत् । तत्र रत्नमयं बिम्बं जीर्णोद्धारश्च कारितः ॥४०७।। कुर्वतेति चतुश्चत्वारिंशदग्राणि भूभुजा । विधापितानि चैत्यानि चतुर्दशशतानि वै ॥४०८।। द्वासप्ततिलक्षमानपट्टकस्फाटनानुगे । विहिते रुदतीवित्तमोचने पण्डितैः स्तुतः ॥४०९।। न यन्मुक्तं पूर्वै रघु-नहुष-नाभाक-भरतप्रभृत्युर्वीनाथैः कृतकृतयुगोत्पत्तिभिरपि । विमुञ्चन् सन्तोषात् तदपि रुदतीवित्तमधुना; कुमारक्ष्मापाल ! त्वमिह महतां मस्तकमणिः ॥४१०॥ श्रुत्वा श्रीहेमचन्द्रोऽपि परमानन्दमुद्वहन् । पुण्यानुमोदनापूर्वं पपाठ नृपतेः पुरः ॥४११॥ 'अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः ।
त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः' ॥४१२॥ ६६२०. गण्ड: श्रीसोमनाथस्य विहारे नृपतेर्वसन् ।
अपराधेन केनापि पदभ्रष्टो व्यधीयत ॥४१३।। विषीदन् पत्तनं प्राप्य * द्वारावलगकोपमः । षोढावश्यकपूतात्मा प्रभून् सेवेन्निरन्तरम् ॥४१४।। एकदाऽवसरं प्राप्य* चतुर्मासकपारणे । विधाय द्वादशावर्तवन्दनामिदमब्रवीत् ॥४१५।। चतुर्मासीमासीत् तव पदयुगं नाथ निकषा कषायप्रध्वंसाद् विकृतिपरिहारव्रतमिदम् ।
15
20
25
* एतच्चिह्नान्तर्गतः पाठः पतित: B आदर्श । 1. B ०पर्वणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.