________________
कुमारपालदेवचरितम् ।
शान्ताऽप्यथैकदा चाटुमांसाहारमयाचत ।
भवनान्तस्ततस्तस्याः क्षेपिता महिषैडकाः ॥ ३९३॥ देवी कदर्थिता सर्वां रात्रिं मूत्रमलस्रवैः । पुरोहितादयः सर्वे बभूवुर्मुद्रिताननाः ॥३९४|| श्रीहेमसूरिध्यानेन स्वभावप्रीणिता सुरी । सान्निध्यकारिणी जाता यदूचे केनचिन्नृपः ॥३९५|| या पूर्वं नवमीमहेषु महिषस्कन्धत्रुटत्कीकसत्राट्कारैरजनिष्ट कर्णकटुकैः कण्टेश्वरी नश्वरी । सा पीयूषपराङ्मुखी रसयति श्रीहेमचन्द्रप्रभोगतं मारिनिवारि सम्प्रति नृपद्वारि स्थिता सुस्थिता ॥ ३९६ ॥ आज्ञाबलेन वित्तेन त्रिघा वीरः स भूपतिः । अमारिघोषणां चक्रे वत्सराणि चतुर्दश ॥ ३९७|| ६६१९. सुपक्वानेकदा भूपो भुञ्जानो घृतपूरकान् ।
मांसास्वादमनुस्मृत्य प्रेभूनेत्य व्यजिज्ञपत् ॥३९८॥ युज्यते वा न वाऽस्माकं घृतपूरकभोजनम् । विज्ञाय तदभिप्रायं प्रभवोऽपि बभाषिरे ॥ ३९९ ॥ वणिग्-ब्राह्मणयोर्युक्तं जातिभावाददूषितम् । कृतमांस्पाकत्यागस्य क्षत्रियस्य तु वर्जितम् ॥४००॥ प्रायश्चित्ते ततस्तस्य द्वात्रिंशद्दन्तसङ्ख्यया । विहारानेकबन्धेन द्वात्रिंशतमचीकरत् ॥४०१॥ पुरा द्रव्ये हृते राजा मूषको यद् व्यपद्यत । तेने तेनास्य शुद्ध्यर्थं विहारो मूषकाभिधः || ४०२॥ करम्भं भोजितः श्रेष्ठिवध्वा यत् त्रिदिनोषितः । करम्भाभिधया चैत्यं तस्याः श्रेयः कृतेऽभवत् ||४०३|| सपादलक्षदेशे च जायया शिरसार्पिताम् । यूकां कोऽपि वणिक् पाणौ मृदित्वा खल्वमारयत् ॥४०४॥
1. A प्रभूनित्यव्यजज्ञपत् ।
Jain Education International
For Private & Personal Use Only
५१
5
10
15
20
25
www.jainelibrary.org