________________
10
कुमारपालचरित्रसङ्ग्रहः तदुक्तः सरलः पन्था ज्ञातव्यो मुक्तिदायकः । शम्भाविति तिरोभूते तस्थौ चित्रमना नृपः ॥३८०॥ सूरीन्द्रोऽपि श्लथोन्मुक्तप्राणायामो विकस्वरः । राजन्नित्यवदत् तावत् त्यक्तराज्यमहामदः ॥३८१।। पादावधार्यतां जीव ! स्वामिन्निति वदन्नृपः । यत्कृत्यमादिशानम्रमौलिः प्राञ्जलिरभ्यधात् ॥३८२।। तत्रैव मदिरा-मांसनियमं जीवितावधिम् । दत्त्वा क्षमापतेः प्राप्तो नाम्नाऽणहिल्लपत्तनम् ॥ ३८३॥ तत्र सर्वोपधाशुद्धसिद्धान्तोपनिषद्गिरा । सम्यक्त्वं ग्राहयामास सम्प्रतेरिव भूपतेः ।।३८४।। प्रबन्धान् योगशास्त्रादीनाकर्ण्य द्वादशव्रतीम् । प्रत्यपादि स भूपाल: पिपासुः सरसीमिव ।।३८५।। त्रिषष्टेः शलाकापुंसां चरित्राणि गुरोर्मुखात् ।
श्रावं श्रावं जैनधर्ममेकच्छत्रमयं व्यघात् ॥३८६॥ 1588१८. शुद्धसम्यक्त्वपूतात्मा महानवमीपर्वणि ।
कुमारपालभूपाल आमिगादिभिराख्यत ॥३८७।। देवी कण्टेश्वरी गोत्रदेवी स्वं भाव्यमीहते । एकं छागशतं चैको महिषः प्रतिपद्दिने ॥३८८॥ एतावदेव द्विगुणं द्वितीये दिवसे पुनः । तृतीये त्रिगुणं यावन्नवमे नव सङ्गुणम् ॥३८९।। तदुक्तं हेमसूरिभ्यस्तैः साम्नाऽभ्यर्थिता च सा । नवाहं यावदादत्स्व भोगं छागादिमूल्यजम् ।।३९०॥ कर्पूरागुरुपीयूषैः प्रीयन्ते खलु देवताः । राक्षसा एव तुष्यन्ति मांसशोणितकीकसैः ॥३९१।। इत्थमुक्ताऽपि साम्नाऽसौ न तुतोष यदा सुरी । कीलनं यन्त्रणं मोरबन्धनं दर्शितं तदा ॥३९२॥
20
25
1. B प्राणायामविकस्वरः । 2. B क्षमापती प्राप्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.